SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १-६४ प्रत्यकतत्वचिन्तामया " तस्मात्स्थाणुर्वा पुरुषो वेति ज्ञानत्रत्सप्तत्वपञ्चत्वनिर्धारणस्य च फलस्य निर्धारयितुः प्रमाणस्य च तत्प्रमेयस्य च सप्तत्वपञ्चत्वसु दशत्वसंशये साधु समर्थितं तीर्थङ्करत्वमृषभेण " इति । अलं पल्लवितेन ॥ ३३ ॥ पूर्वपक्षमुपसंहरति तस्मादिति ॥ ३४ ॥ - अत्रोच्यते समीचीनं त्वया प्रोक्तं मतं मम । प्रतिकर्म्म व्यवस्थायाः सर्ववादिष्वसम्भवः ॥ ३५॥ पूर्वपचमिष्टापत्या स्वीकुर्वन् समाधानं प्रतिजानीते--अत्रोच्यते इति । सर्ववादिषु तार्किकादिमतेषु प्रतिकर्म्मव्यवस्थाया असम्भवाऽस्तीति यत्त्वया प्रोक्तं तत्समीचीनमेव प्रोक्तम् । इति यत्तदोरध्याहारेणान्वयः । यतो ममापि वेदान्तवादिनो मतमभिमत मस्तीत्यर्थः ॥ ३५ ॥ - सा वेदान्तिमते सम्यक् सम्भवेद् व्यवहारतः । परमार्थदशायान्तु माऽस्तु सा तेन का क्षतिः ॥ ३६॥ कथं तर्हि वेदान्तिमते तत्सम्भवः ? तत्रापि तदसम्भवस्त्वस्माभिरुक्त एवेत्याशङक्य किं परमार्थतो वेदान्तिमते प्रतिकर्म्मध्यवस्थाया असम्भव उच्यते ? उत व्यवहारतोऽपि ? नाद्यः, इष्टापत्तेः । नहि वस्तुतः किमप्यद्वितीये वस्तुनि सर्वव्यवहारानास्पदे वेदान्तिभि र्व्यवहरणं स्वीक्रियते, "न निरोधो न चोत्पत्तिर्न बन्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता || ” ( गौ० का० २ । ३२) इति श्रुतेः । न द्वितीयो व्यवहारदशायां मायापहित चैतन्ये माययैव सर्वव्यवहारसिद्धेरित्यभिप्रेत्याह – सेति ॥ ३६ ॥ - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy