________________
पञ्चमं प्रकरणम्। तत्कथं शृणु वेदान्तसिद्धान्तमतमादरात् । तव शङ्काकलङ्कासंस्पृष्टं यदि विपर्ययम् ॥ ३७॥
तहि व्यवहारदशायामुक्तदूषणानां कथमुद्धार इति शङ्कते-तत्कथमिति । समाधत्ते-शृण्विति । त्वदुक्तशङ्काकलङ्केनाऽसंस्पृष्टं वेदान्तसिद्धान्तमतम् । यद्विपर्ययशून्यं सम्यकप्रमाणसिद्धं तदादराच्छृण्वित्यर्थः । नहि श्रद्धाभक्ती विना वेदान्तमतश्रवणेऽधिकार इति भावः ।। ३७ ।।
अनिर्वाच्याऽविद्या सकलकलनाकारणतया
समावृत्याऽऽत्मानं निरवधि चिदानन्दममृतम् । प्रपञ्चाकारेण प्रचुरगुणयुक्ता परिणता प्रमात्राद्यध्यासं सृजतिविमलेऽहकृतितया॥३८॥
प्रतिज्ञातमर्थमुपपादयितुं भूमिकामाह-प्रनिर्वाच्येति । वस्तुतोऽपरिछिन्नं चिदानन्दस्वरूपममृतं नित्यमुक्तमप्यात्मानं स्वाश्रया स्वविषयाऽनाद्यनिर्वाच्या विद्या सम्यक् तत्प्रतिबिम्बगर्भिता आच्छाद्य सकलव्यवहारहेतुकल्पनाकारणतया प्रचुरगुणविशिष्टा प्रपञ्चाकारेण परिणता सती तत्राप्यहङ्कतिरूपेण परिणता सती विमलेऽत्यन्तविशुद्धतया सर्वव्यवहारानास्पदेऽपि चैतन्ये प्रमात्राद्यध्यासं सृजतीति योजना । तथा च परमार्थवस्तुनि प्रत्यक्तत्त्वेऽविद्याद्यध्यासमन्तरेण न कस्यापि व्यवहारस्य सम्भवः, तदुपहिते तु न कस्यापि व्यवहारस्यानुपपत्तिरिति भावः ॥ ३८॥
अविद्याधिष्ठानं प्रकृतिविकृतीशानमचलं निरीह निर्द्वन्द्वं सुखधनमबाध्यं समरसम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com