________________
प्रथमं प्रकरणम् । यदपीदमुक्तं---शरीराणि वसंख्यासंख्येयात्मभिरात्मवन्ति, शरीरत्वात्, प्रतिवादिशरीरवदिति । तदूषयति-~एक इति। एक एव योगी कायव्यूहदशायामनेकशरीरेषु भिन्नरूपां व्यापृतिं नानाविरुद्धचेष्टा कुर्वन्स्वात्मैकत्वं न कदापि त्यजति । तथा च शरीरत्वादिति हेतुरैकात्म्यविरोधात् कालात्ययापदिष्टश्चेति भावः । तथैवात्मा शुद्धस्तद्व्यवहारासंस्पृष्टः, बुद्धो ज्ञानघनः, अचलोऽक्रियः, अध्यस्तस्य सर्वस्यापि विश्वस्य साक्षी साक्षित्वेनैव सर्वव्यवहारावभासक उदितः। श्रुत्येति शेषः । आत्मनः स्वभावभूतमैक्यं नानाव्यवहृति विरुद्धानेकव्यवहारं कुर्वन्नपि साक्षित्वेनावभासयन्नपि नो जहाति न परित्यजतीत्यर्थः ॥ ६० ॥ बुद्धे दाद् व्यवहृतिभिदा सर्वदेहेषु सिद्धा
लेयं प्रत्यकसुखघनमजं वीक्षितुं स्यात्समर्था। वेदान्तानां विषयममृतं न प्रमाणान्तरैस्तं __ ज्ञातुं शक्तस्तनुयुगमतिर्नित्यकूटस्थमेतम् ॥६१॥
एवं साक्ष्यैक्यं वेदान्तकसमधिगम्यं प्रमाणान्तरैः कटाक्षेणापि वीक्षितुमशक्यं चोपपादितमुपसंहरन् युगपद्विरुद्धव्यवहारान्यथानुपपत्त्यभावमाह -बुद्धरिति । सर्वदेहेषु ब्रह्मादिस्थावरान्तेषु व्यवहारभिदा बुद्धेः प्रमातृत्वाद्युपाधिरूपाया भेदादेव सिद्धास्ति । इयं भिदा प्रत्यकसुखधनं परप्रेमास्पदतया सर्वान्तरानन्दैकरसम, अर्ज जन्मादि विक्रियाशून्यं वीक्षितु लेशेनापि स्प्रष्टुं समर्था न स्यात् । किञ्च, वेदान्तानां तात्पर्य विषयममृतममृतवदास्वाद्यं मोक्षरूपं प्रमाणान्तरैः प्रत्यक्षादिरूपैर्वेदान्तातिरिक्तैरतं नित्यकूटस्थं सर्वदा निर्विकारमेनं स्वत एवापरोक्षस्वभावं साक्षिणं तनुयुगे स्थूलसूक्ष्मशरीरद्वयं आत्मत्वमतिर्यस्य स ज्ञातुमनुभवितुं शक्तः समर्थो न
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com