________________
प्रत्यक्तत्त्वचिन्तामणी कथमज्ञानकार्यभेदविभ्रमे फलवत् स्यात् "यत्परः शब्दः स शब्दार्थः" इति न्यायेन भेदावबोधने नैव शास्त्रतात्पर्य मिति भावः ॥ ५८ ॥ स्वप्ने द्रष्टा विविधरचनामेक एवाद्वितीयो
नानादेहान् स्थिरचरकलान् कल्पयित्वेक्षतेऽयम् । बन्धं मोक्ष जननमरणे ज्ञानमज्ञानमैक्यं
सत्यं स्वीयं त्यजति न कदा जागरेतद्वदेव ॥५६॥
तस्मादात्मभेदे प्रमाणाभावादयुक्तत्वाञ्च सर्वेषु शरीरेषु एक एवात्मा सिद्ध इतीममर्थ स्वप्नदृष्टान्तेन व्युत्पादयति-स्वप्न इति । यथा स्वप्नावस्थायामेक एवाद्वितीयो द्रष्टा नानादेहान देवतिर्यङमनुष्यादिरूपान् चराचरात्मकान् कल्पयित्वा अयम्--स्वप्रकाशतया "अत्रायं पुरुषः स्वयंज्योतिर्भवति" (बृ. ४ । ३ । १४ ) इति श्रुतिसिद्धःविविधरचनां नानासंस्थानरूपां सृष्टिमीक्षते पश्यति । बन्धं कर्तृत्वाअध्यासरूपम्, मोक्षं तद्बाधेन स्वरूपावस्थानलक्षणम, अर्थाद् बद्धं मुक्तञ्च; अपूर्वशरीरसम्बन्धरूपं जन्म, उपात्तदेहविच्छेदरूपं मरणम्, ज्ञानं स्वरूपसाक्षात्कारः, प्रज्ञानं स्वस्वरूपावरकम,अर्थादर्श तत्त्वज्ञञ्च कल्पयनिति शेषः । कल्पितनानादेहभेदेन विरुद्धव्यवहारान् पश्यन्नपि स्वीयमैक्यमेकत्वम्, सत्यं कालत्रयेप्यबाध्यम्, न कदाचन त्यजति । तद्वदेव तेनैव प्रकारेण जागरेऽज्ञानकार्यजाग्रदवस्थायामेकत्वापरित्यागेनैव कल्पितदेहभेदव्यवहारसिद्धिरप्यस्तीत्यर्थः ।। ५६ ।। एका योगी विविधतनुषु व्यापृति भिन्नरूपां
कुर्वन्नैक्यं त्यजति न कदा तद्वदेवायमात्मा। शुद्धो बुद्धोप्यचल उदितोऽध्यस्तसाक्षी स्वभावं कुर्वनानाव्यवहृतिमपि स्वात्मनोना जहाति॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com