________________
प्रथमं प्रकरणम् । त्यर्थः। एतदेव दृष्टान्तेन द्रढयति-नहीति । अर्कादेर्जलदर्पणादौ प्रतिबिम्बनादुपाधिभेदेनानेकरूपेण भासमानस्यापि नहि तेन सूर्यादिवस्तुतो भिद्यते। तथाऽऽत्मतत्त्वमपि बुद्धयाधुपाधिभेदेनानेकत्वेन भासमानं न वस्तुतो भिद्यते । किञ्च, सर्वो भेदव्यवहारोऽज्ञानप्रयुक्तस्तत्त्वज्ञानप. र्यन्त एवास्तीत्याह-श्रौत इति । तत्त्वमस्यादिवाक्यजन्यज्ञाननिवाऽज्ञानविषये प्रत्यगात्मनि साक्षात्कृते इतरा भेदव्यवहारगोचरा सर्वापि बुद्धिवृत्तिरप्येति मूलबाधेनैव बाधितत्वाद्विलयं प्राप्नोतीत्यर्थः ॥ ५७ ॥ मिथ्याभेदं स्थिरचरवपुर्निष्ठमुद्दिश्य शास्त्रं
भिन्न कम्ोपदिशति फले बद्धतृष्णं मनुष्यम् । दृष्ट्वा तस्मै न तु निगमगीर्भेदनिष्ठात्मनिष्ठा
द्वाराद्वैते फलति सुमतिस्वान्तपद्मार्कमेयम्॥५॥ अत एवौपाधिकरूपाणामनेकत्वात्तेषु संसारप्रतिभासादनेकनियोज्यप्रसिद्धरनेकफलोद्देशेन बहुसाधनविधानोपपत्तेर्न श्रुतार्थापत्तिविरोधोऽपीत्यभिप्रेत्याह-मिथ्येति । अनिर्वाच्या ज्ञानकार्यतया सदसद्भयां निर्वक्तुमशक्यं भेदं चराचरशरीरनिष्ठमनूद्य भिन्नाधिकारिकत्र्तृकं कर्म पृथक् पृथक फले स्वर्गापवर्गादिरूपे बद्धा तृष्णा यस्य तं मनुष्यं कर्माद्यधिकारिणं दृष्ट्वा तस्मै शास्त्रमुपदिशति। न तु तावता भ्रान्तजनतोषहेतूपदेशमात्रेण निगमवाणी भेदनिष्ठेत्यध्यवसातुं शक्यम् । किन्तु सत्त्वशुद्धिहेतुकर्मोपासनोपदेशपरम्परया प्रत्यगात्मनिष्ठोत्पादनद्वारा अद्वैतेऽखण्डवस्तुनि फलवती भवति। यतो वेदवाणी सुष्ठुकर्माद्यनुष्ठानोपायेन शोधिता मतिरन्तःकरणं यस्य तस्य स्वान्तमेव मुकुलीकृतं पद्मं तस्य विकसने ब्रह्माभिमुखीकरणेऽर्कस्य सूर्यस्य भा प्रभा इयमिति योजना। फल्लवद्ब्रह्मसाक्षात्कारोत्पादनद्वारा ब्रह्मात्म्यैक्ये तात्पर्य्यवच्छास्त्रं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com