SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रत्यक् तत्त्वचिन्तामया यत्ततमैकात्म्ये सति सर्वत्रानुसन्धानप्रसङ्गात् तस्य चाभावाद् भोगव्यवस्था ऽनुपपद्यमाना आत्मभेदं कल्पयतीति । तत्र किमात्मस्वरूपस्य सर्वत्रानुसन्धानेन भवितव्यमित्युच्यते ? किं वा भोक्तृणाम् ? इति विकल्प्य प्रथमे कल्पे उत्तरमाह - साक्षित्वेनेति । अखिलजनबुद्धिवृत्तीनां सर्वचतुर्षा भानुवत्साचित्वेनावभासकोऽयं प्रत्यगात्मा स्वत एवापरोक्षरूपः । तथा च भवत्येव सर्वत्र साक्षिरूपेणात्मस्वरूपस्यानुसन्धानं सर्वार्थानुसन्धानसमर्थसाक्षियमन्तरेण व्यवहारानुपपत्तेरिति भावः । द्वितीयस्योत्तरमाह – बुद्धेरिति । आत्मस्वरूपस्यैकत्वेप्यन्तःकरणानामनेकत्वेन तदवच्छिन्नरूपायां भोक्तृणामनेकत्वादननुसन्धानोपपत्तेरनेकशरीरिणां व्यवहारसङ्करो नास्तीत्यर्थः । तत्र दृष्टान्तमाह-व्योमैकत्व इति । यथाऽपवरकाकाशस्यैकत्वेऽपि घटशरावादिरूपेणासङ्कर व्यवहारविषयत्व तद्वत्प्रकृतेऽपि बोध्यमित्यर्थः ॥ ५६ ॥ * तस्मात्सर्वा व्यवहृतिभिदा देहबुद्ध्यादिनिष्ठा सिद्धा तेनाचलसुखघने नास्ति भेदावकाश: । नार्कादेर्मु कुरजलार्बिम्बनाद्भेद इष्टः श्रते तवेऽवगत इतरा बुद्धिरप्येति सर्वा ॥५७॥ तस्माद्भोगव्यवस्थाऽनुपपत्तिरन्तः करणभेदेनैवोपपन्नत्वाद्भोगव्यवस्थाया नात्मभेदं कल्पयतीति दृष्टार्थापत्तिं परिहरन् फलितमाहतस्मादिति । यस्मात् सुखदुःखादयो बुद्धायुपाधिधर्मास्तस्याश्च प्रतिशरीरं भेद एव, तस्मात् सर्वा व्यवहृतिभिदा सर्वो लौकिकवैदिकव्यवहारभेदो देहबुद्धाद्यपाधिनिष्ठा तत्रैवोपलभ्यमानतया अनात्मधर्म एव भवति । तेन भेदस्यानात्मनिष्ठत्वहेतुना सैन्धवघनवत् स्वभावत एव निश्चलानन्दैकरसे प्रत्यगात्मनि भेदशङ्कावकाश एव नास्ती Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy