SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रकरणम् । २२५ घटोऽयमिति चाऽध्यक्ष प्रमाणचित इष्यते। घटावच्छिन्नचैतन्याभेद एव प्रयोजकम् ॥१४१॥ तर्हि ज्ञानगतस्य प्रत्यक्षत्वस्य किं प्रयोजकमित्याकाङ्क्षायामाह-घट इति। प्रमाणचैतन्यस्य घटावच्छिन्नचैतन्याभेद एव घटोs. यमिति प्रत्यक्षे प्रयोजकमिष्यते इति योजना। योग्यविषयावच्छिन्नचैतन्यामिन्नत्वं प्रमाण चैतन्यस्य ज्ञानगतप्रत्यक्षत्वस्य प्रयोजकमित्यर्थः ॥ १४१ ॥ अतः प्रमात्रभिन्नत्वं प्रत्यक्षत्वं घटादिषु । मातृसत्ताऽतिरिक्ता नो सत्ताऽध्यस्तघटादिषु॥१४२॥ विषयगतस्य प्रत्यक्षत्वस्य प्रयोजकमाह-अत इति । यतश्चैतन्याभेद एव सर्वत्र ज्ञानादिव्यवहारे प्रयोजकम् , अतः प्रमातृचैत-. न्यामिन्नत्वं घटादिषु प्रत्यक्षत्वम् । ननु कथं घटादेरन्तःकरणावच्छिन्नचैतन्याभेदः ? 'अहमिमं पश्यामि' इति भेदानुभवविरोधादिति तत्राह-मातृसत्तेति। प्रमात्रभेदो नाम न तावदैक्यं किन्तु प्रमातृसत्तातिरिक्तसत्ताकत्वाभावः । तथा च अध्यस्तघटादिषु प्रमातृसत्तातिरिक्तसत्तैव नास्तीत्यर्थः ॥ १४२ ॥ स्वावच्छिन्नचिदध्यस्ततया कुम्भादिवस्तुनः। न ततो भिन्नसत्ताऽस्ति तथाऽनङ्गीकृतेरपि ॥१४३॥ एतदेव विवृणोति-स्वावच्छिन्नेति। घटाद्यवच्छिन्नचैतन्येऽध्यस्तत्वेन कुम्भादिवस्तुनस्ततः स्वावच्छिन्नचैतन्याद्भिन्ना सत्ता नास्ति । कुत इत्यत आह-तथाऽनङ्गोकतेरिति। अध्यस्तस्याऽधिष्ठानातिरितत्वानङ्गीकारादित्यर्थः ॥१४३ ॥ २६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy