________________
२२६
प्रत्यक्तत्त्वचिन्तामणौ न वा विषयचैतन्यं प्रमातुर्भिद्यते चितः। उपाध्यारेकदिक्स्थत्वे का भेदं तत्र कल्पयेत्॥१४४॥ अतो घटायधिष्ठानतया सत्तात्मनश्चितः। घटादिसत्ता नान्येति सिद्धा तदपरोक्षता ॥ १४५ ॥
ननु घटाद्यवच्छिन्नब्रह्मचैतन्ये घटादेरध्यासात्तेन तस्याऽभेदोऽस्तु, न तु प्रमातृचैतन्येन तस्यान्त:करणावच्छिन्नतया ततो भेदादित्याशङ्क्याह-न वेति। विषयचैतन्यं पूर्वोक्तप्रकारेण न प्रमातृचैतन्याद्वि. लक्षणम्, किन्तु प्रमातृचैतन्यमेव। उपाध्योर्विभाजकयोरन्त:करणघटयोरेकदेशस्थत्वे तत्रोपहितचैतन्ययोर्विषयप्रमातृचैतन्ययो. मेंदं कः कल्पयेत् ? इति प्रमातृचैतन्यस्यैव घटाद्यधिष्ठानतया प्रमातृसत्तैव घटादिसत्ता नान्या, अधिष्ठानसत्तातिरिक्ताया आरोपितसत्ताया अनङ्गोकारादिति सिद्धं घटादेरपरोक्षत्वमिति द्वयोरन्वयः ॥ १४४-१४५ ॥
वृत्तेर्निर्गमनाभावादनुमित्यादिकस्थले। भेदकोपाधिसद्भावान्न तथात्वमपीरितम् ॥ १४६ ॥ ननु “पर्वतो वह्निमान्" इत्यादावपि वादेः प्रमातृसत्तातिरिक्तसत्ताकत्वाभावरूपलक्षणस्य सत्त्वात् प्रत्यतत्वापत्तिरित्याशक्य तत्रान्त:करणस्य वनादिदेशनिर्गमाभावेन वह्नावच्छिन्नचैतन्यस्य प्रमातृचैतन्यस्यानात्मकतया वह्ननादिसत्ता प्रमातृसत्तातो भिन्नेति नाऽतिव्याप्तिरित्याह-वृत्तेरिति ॥ १४६ ।।
वृत्तौ वृत्त्यन्तराभावेऽप्यस्ति लक्षणमक्षतम् । प्रमातचितिसत्तातोऽभिन्नसत्ताकतात्मकम् ॥१४७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com