________________
पञ्चमं प्रकरणम् ।
२२७ ननु वृत्तिविषयवृत्त्यन्तरानङ्गोकारेण तत्र स्वाकारवृत्त्युपहितत्वाभावादव्याप्तिरित्याशङ्क्याह-वृत्ताविति। अनवस्थाभिया वृत्तिगोचरवृत्त्यन्तरानङ्गीकारेऽपि वृत्तेः स्वविषयत्वाभ्युपगमेन स्वविषयवृत्त्युपहितप्रमातृचैतन्याभिन्नसत्ताकत्वस्य तत्रापि भावान्नाऽव्याप्तिरित्यर्थः॥१४७॥
तथान्तःकरणस्यापि तद्धर्माणाञ्च लक्ष्यता। तत्तदाकारवृत्तेः स्वीकारादेव भवेत्तथा ॥ १४॥
एवञ्चोक्तलक्षणस्य सर्वत्र सत्त्वान्नाऽव्याप्तिरित्याह-तथेति । अन्तःकरणस्य धर्मिणस्वस्य धर्मा ये कामादयस्तेषाञ्चास्मिन् लक्षणे लक्ष्यत्वमस्त्येव, कुतः ? इत्यत आह-तत्तदिति । सुगममन्यत् ॥ १४८॥
नहि वृत्ति विना साक्षिविषयत्वं मतञ्च नः । साक्षिमात्रैकवेद्यत्वं किन्त्वस्त्यन्यानपेक्षितम्॥१४८॥
यदिन्द्रियानुमानादिमानव्यापारमन्तरा। साक्षिमात्रैकवेद्यत्वं साक्षिगोचरताऽस्ति सा॥१५०॥
नन्वन्तःकरणतद्धर्मादीनां वृत्तिविषयत्वाभ्युपगमे केवलसाक्षिविषयत्वाभ्युपगमविरोधः स्यादिति तत्राह-नहीति। किन्त्विन्द्रियानुमानादिप्रमाणव्यापारमन्तरेण साक्षिविषयत्वं केवलासाक्षिवेद्यत्वमिति द्वयोर्योजना ॥ १४६-१५० ॥
अतोऽहङ्कारटीकायामाचारहमाकृतिः। अन्तःकरणवृत्तिः स्वीकृता साक्ष्यवभासने ॥१५१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com