________________
२२८
प्रत्यक्तत्त्वचिन्तामणौ नेदं स्वकपोलकल्पितमिति पञ्चपाद्याः सम्मतिमाह-अत इति । यतोऽन्तःकरणादिवृत्तिविषयत्वाङ्गीकारेऽभ्युपगमाविरोधः, अतोऽहङ्कारटीकायामहंवृत्त्यवच्छिन्नमेवान्तःकरणं चैतन्यस्य विषयभावमापद्यते इत्यहङ्कारटीकाविवरणे इत्यर्थः। प्राचाय्यविवरणाचायरहमाकारान्तःकरणवृत्तिः स्वीकृता साक्षिवेद्यत्वविषये इत्यर्थः ॥१५१।।
अत एव मृषारूप्यस्थलेऽस्मत्साम्प्रदायिकैः । स्वीकृता रजताकाराऽविद्यावृत्तिम॑षात्मिका॥१५२॥
यथोक्तसाक्षिवेद्यत्वे साम्प्रदायिकत्वं दर्शयति-अत एवेति । प्रमाणव्यापारानपेक्षसातिविषयत्वादेव प्रातिभासिकरजतस्थले रजताकाराऽविद्यावृत्तिरनिर्वाच्या साम्प्रदायिकैरङ्गीकृता। तदङ्गोकारस्तु स्वगोचरवृत्त्युपहितचैतन्यभिन्नसत्वाकत्वाभावस्य विषयापरोक्षत्वसिद्धये। न च वृत्तिद्वयाङ्गीकारे गुरुमतप्रवेशः, वृत्तिद्वयप्रतिबिम्बितचैतन्यस्यैकस्य सत्यमिथ्यातादात्म्यावगाहित्वेन भ्रमत्वस्वीकारादिति तात्पर्य्यार्थः ।। १५२ ॥
तस्मात्स्वाध्यस्तमेवेदं विश्वं चितिरखण्डिता। मातृमानादिरूपेण साऽवभासयति स्वयम् ॥१५॥
ततः किमित्यत आह-तस्मादिति । यतो व्यावहारिके प्रातिभासिके च स्थलेऽवभास कत्वं चैतन्यस्यैव, तस्मात्स्वस्मिंश्चैतन्येऽध्यस्तं विश्वं कार्यकारणरूपमिदं प्रत्यक्षादिगोचरं साक्षिगोचरञ्च सा स्वप्रकाशतया श्रुतिस्मृतिविद्वदनुभवप्रसिद्धाऽखण्डिता चितिरखण्डचैतन्यब्रह्माभिधा संविद् मातृमानादिरूपेणावभासयति। स्वयं त्वतदुपहितत्वेन भासमानापि निरपेक्षतया प्रकाशयतीत्यर्थः ॥ १५३ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com