SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रकरणम् । २२६ ज्ञानावच्छेदिका वृत्तिस्तदभिव्यञ्चिका मता। तज्जनौ सन्निकर्षाणां योग्यानां विनियोगतः॥१५४॥ न चान्तःकरणवृत्तीनां विषयप्रकाशकत्वम्, जडत्वात्; किन्तु तदवच्छेदकत्वात् तदभिव्यजकमात्रेण तत्र ज्ञानत्वव्यवहार इत्याह-ज्ञानेति। तज्जनौ ज्ञानावच्छेदकवृत्त्युत्पत्तौ योग्यानां यथोचितानां सन्निकर्षाणां विनियोगतः “सार्वविभक्तिकस्तसिः” उपयोग इत्यर्थः ॥ १५४ ॥ तेऽपि संयोगसंयुक्ततादात्म्यप्रमुखा मताः। चितोऽभिव्यञ्जकात्पत्तौ विनियुक्तायथायथम् ॥१५॥ नन्विन्द्रियस्य तत्सन्निकर्षस्य च भवन्मते वैयर्थ्य चैतन्यरूपस्य घटादिज्ञानस्येन्द्रियसन्निकर्षाजन्यत्वादित्याशक्य तयोवृत्तिजनने विनियोगान्न वैयर्थ्यमित्युक्तमपि पुनस्तत्स्वरूपकथनेन द्रढयति-तेऽपीति । एवं घटादेः प्रत्यक्षत्वे संयोगसंयुक्ततादात्म्यसंयुक्ताभिन्नतादात्म्यानामिन्द्रियस्य च घटतद्गतरूपतद्धर्मरूपत्वाद्यवच्छिन्नचैतन्याभिव्यञ्जकवृत्तिजनने यथायोग्यं विनियोग इत्यर्थः ॥ १५५॥ सा च वृत्तिश्चतुर्धा स्यात संशयादिविभेदतः। मनोबुद्ध्यादिभेदेन वृत्तिमत्तच्चतुर्विधम् ॥ १५६ ॥ नन्वेवमपि चैतन्यस्यैव ज्ञानत्वात्तत्तत्सन्निकर्षस्य तत्रानुपयोगस्तदवस्थ इत्याशक्य यथैकमप्यन्तःकरणं चतुर्विधवृत्त्यवच्छिन्नं चतुर्विधमित्युच्यते, एवमजन्यमपि चैतन्यमिन्द्रियसन्निकर्षजन्यवृत्त्यवच्छिन्नं तज्जन्यमित्याशयेनाह-सा चेति । यद्यपि वृत्तिविशिष्टचैतन्यमादिमदित्यत्र विशिष्टचैतन्यस्येन्द्रियसन्निकर्षजन्यत्वमुक्तमेव, तथापि तस्यैव दृष्टान्तमुखेनाऽत्रोपादानान्न पौनरुक्ताम्; अन्यथा यथाश्रुते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy