________________
१३३
तृतीयं प्रकरणम् । ज्ञातस्तथाऽज्ञात इति प्रतीति
र्याऽनात्मनिष्ठा न च सात्मनि स्यात् । विलक्षणोऽयं विदितात्तथान्या
ऽप्यज्ञाततः श्रोतवचःप्रसिद्धः॥५४॥
अनात्मनिष्ठोऽयमुभयविधेोऽनुभवो न निरूपणीयात्मतत्त्वमनुभावयतीति परिहरति-ज्ञात इति। “अन्यदेव तद्विदितादथाऽविदितादधि" ( के० १ । ३ ) इति श्रोतवचसा प्रसिद्ध इति ॥ ५४॥
जानामि मामित्यनुभूतिरेषा
न शुद्धमेनं विषयीकरोति। आत्मानमज्ञानमुखैर्विशिष्टं
वैकल्पिकत्वादवगाहतेऽसौ ॥५५॥ मामहं जानामीत्यनुभवोऽज्ञानानानन्दादिवैशिष्ट्येनात्मानं विषयीकरोति, न शुद्धमित्याह-जानामीति । वैकल्पिकत्वादिति। आत्मानं जानामीति प्रत्ययो न निर्विकल्पकः किञ्चिदित्येव हि तदाकारः शब्देन व्युत्पाद्यते। न चात्र तथा,प्रात्मानमित्यात्मशब्देन ज्ञानाकारव्युत्पादनात् । मानसं चैतज्ज्ञानं परैरिष्यते । मनसश्चेन्द्रियस्य द्रव्ये प्रवृत्तिर्गुणोपरागेण । गुणश्चात्र दुःखादिरेव, दुःखाद्युपरागश्च न नैयायिकादिवदात्मनः स्वतोऽस्मन्मते, किन्तु दुःखादिधर्मकान्तःकरणतादात्म्यात् । तत्तादात्म्यं नाज्ञानमन्तरा। तथा चात्मानमहं जानामीत्यनुभवबलादेवाज्ञानादिवैशिष्ट्यं भाति, न विशुद्ध स्वरूपम् । ततो विशिष्टमेव ज्ञानकर्म, न शुद्धं स्वरूपमिति तात्पयार्थः ॥ ५५ ।। न ज्ञानकर्मत्वमयं चिदात्मा
स्वयंप्रकाश भजते विशुद्धः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com