SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १३४ प्रत्यकतत्त्व चिन्तामया विशिष्टवृत्तेरपि धर्मकस्य विशेषणे वृत्ति रितीष्यते हि ॥ ५६ ॥ एतदेव विवृणोति — नेति । विशिष्टस्यास्वप्रकाशत्वेन ज्ञानकर्मत्वाविरोध इत्यर्थः । तस्यापि स्वप्रकाशत्वे विशिष्टवृत्तेर्धर्मस्य विशेषणवृत्तित्वनियमादज्ञानादेरपि तथात्वं स्यात् । अतो विशिष्टं ज्ञानकर्म न स्वप्रकाश मित्यर्थः ॥ ५६ ॥ न वेद्मि मामित्यनुभूतिरेषा स्वयंप्रकाशत्वविरोधिनी ना । अज्ञानमद्वा विषयीकरोति स्वज्योतिरुल्लिख्य चिदात्मवस्तु ॥ ५७ ॥ । मामहं न वेद्योत्यनुभवान स्वप्रकाशत्वविरोधीत्याह न वेद्योति । यद्यप्यहं मां न जानामीत्यनुभवोऽज्ञातत्वं शुद्धे आत्मनि व्यवस्थापयति, तथापि विना स्वप्रकाशत्वमात्मन्यज्ञातत्वं बोधयितुं न शक्नोतीत्यज्ञातत्वं न स्वप्रकाशत्व विराधि किन्तु तदुपपादकमिति तात्पर्यार्थः ॥ ५७ ॥ " अतोऽहमात्मानमिति प्रतीतिरात्मानमुल्लिख्य च भासमानम् । स्वयं प्रकाशैकतयाऽनु नेत्यऽज्ञानावृतिं सा विषयीकरोति ॥ ५८ ॥ नन्वज्ञातत्वम्,अभासमानत्वम्, तद्ग्राहकञ्च प्रमाणं कथं स्वप्रकाशकत्वसाधकम् ? प्रतिप्रसङ्गादित्यत्राह — अतोऽहमिति । मामहं न वेद्भोति ज्ञानं विशिष्टरूपम् । तत्र विशेष्यमज्ञातत्वम् । तच्च विषयनिरूप्यमिति । विषय प्रात्माऽज्ञातत्वव्यावर्तकत्वाद्विशेषणम् । अत आत्मापि विशिष्ट - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy