SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्तत्त्वचिन्तामणी परन्त्वात्मज्ञानं प्रभवदपरोक्षं नृमनसां विशुद्ध वैषम्याद् दृढतरमिदं नैव यदपि । तथापि श्रुत्यन्तप्रकटितमृषात्वं जगदिदं विभौ नास्तीत्येवं दृढमतिरुदेत्येव सुधियाम्॥१८॥ तर्हि विदितपदपदार्थानां श्रुतवेदान्तानामपि कुता विपर्ययादिदर्शनमित्याशक्य पुरुषबुद्धापराधादेवेत्याह-परन्त्विति । किन्त्वपरोक्षज्ञानमात्मनि प्रभवदपि साज्ञानविपर्ययबाधने समर्थतया जायमानमपि नृमनसामधिकारिजनान्तःकरणानां शुद्धतारतम्यान्नैवेदं दृढतरं भवति । ततश्चाऽऽत्मनिर्विचिकित्सानुभवफलस्य प्रतिबद्धत्वेऽपि तात्पर्यवद्वाक्यप्रामाण्यादेव पूर्वमपि संसारस्य मिथ्यात्वनिश्चय उपपद्यत इत्याशयेनाह–तथापोति । श्रुत्यन्तैः श्रुतिशिरोभिः प्रकटितं प्रकाशितं मृषात्वं यस्य तत् । “तरति शोकमात्मवित्" (छा० ७॥ १। ३) इत्यादिश्रुतयः प्रपञ्चमिथ्यात्वमन्तरेणाऽनुपपद्यमानाः शतशः प्रपञ्चमिथ्यात्वे प्रमाणम्। ततश्चेदं जगद्विभौ परमात्मनि नास्ति वस्तुत इत्येवं दृढ़मतिः शास्त्रीयदृढ़निश्चयः सुधियां विगतान्तःकरणदोषतया विवेकादिसाधनसम्पन्नानां प्रज्ञानामुदेत्येव प्रादुर्भवत्येवेत्यर्थः। तथा चाप्रतिबद्धात्मतत्त्वसाक्षात्कारपर्यन्तं विपर्यासदर्शनम् , न ततः परमिति भावः ॥ १६ ॥ दूढे बोधे जाते निखिलजगदाभासविलयः स्वतः सिद्धो ब्रह्मामृतसुखपदस्थस्य सुमतेः। अतोऽविद्वत्पुंसाऽनधिगतपरात्मैक्यसरणेविबोधार्थ शास्त्रं हयुपदिशति यागादिकरणम्॥२०॥ श्रवणादिसकलसाधनसम्पत्तौ पुनरशेषप्रतिबन्धविगमोपपत्तनिर्विचिकित्सात्मानुभवे सति तद्विपरीतसंसारप्रतिभासो निवर्तते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy