SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ चतुर्थ प्रकरणम् । १७७ (बृ. २ । ५। १६) इति श्रुतिसिद्धं न कार्य कस्यचित्, न वा हेतुः तदुक्तम्- "अपूर्वानपरं ब्रह्म तस्य कार्य न कारणम् । अधिष्ठानत्वमात्रेण कारणं ब्रह्म गीयते' । इत्यतो हेता: औतवचसा “यतो वा" इत्यादीनां सृष्टिश्रुतीनामखण्डे ब्रौक्ये तात्पर्य वेदविदुषां व्यासादीनामिति मतं निश्चितमिति योजना ॥ ५४॥ अधिष्ठानाद्भिनं क्वचिदपि न चाध्यस्तमखिलं ह्यधिष्ठानं ब्रह्माद्वयमजमविद्यादिशबलम् । अतो ज्ञानज्ञेयात्मकमखिलमद्वतममृतं परब्रह्मैवाऽस्तीत्यखिलनिगमान्तकहृदयम्॥५५॥ विद्वन्मतमेव दर्शयति-अधिष्ठानादिति। क्वचिल्लोके वेदे वा देशे काले वा अखिलमध्यस्तं रज्जुसादिवद्विश्वं स्वाधिष्ठानाद् वस्तुतो भिन्नं न भवति । ननु तर्हि यथायोग्यं मृद्धटादीनां रज्जुसदीनामेवाधिष्ठानाधिष्ठेयभावः कुतो न स्यात् ? नेत्याह-हीति । यतो ब्रह्मैवाधिष्ठानम्, न मृदादि,न वा रज्ज्वादि, तेषां कल्पितत्वाविशेषात् । न च कल्पितस्य कल्पितमेव अधिष्ठानमस्त्विति वाच्यम्, शून्यवादापत्तेः। अज्ञातञ्चाधिष्ठानं वाच्यम्, अज्ञातत्त्वमज्ञानावृतत्वम् । तच्च स्वभाना ब्रह्मण्येव पर्यवस्यति । तथा च सर्वत्राध्यासाधिष्ठानं ब्रह्मव । तच्चाद्वैतवर्जितमजं जन्मादिविक्रियातीतमविद्याधुपहितत्वेन रूपेणैवाखिलज गद्धेतुरित्यर्थः । यतोऽध्यस्तसत्ता अधिष्ठानसत्तानतिरिक्ता, अतो ज्ञानज्ञेयात्मकमखिलं विश्वं "सर्व खल्विदं ब्रह्म' (छा० ३ । १४ । १) "आत्मैवेदं सर्वम्" ( छा० ७ । २५ । २) "नारायण एवेदं सर्वम्" "वासुदेवः सर्वम्" (गो०७। १६) इति श्रुतिस्मृतिसिद्ध परब्रह्मैवास्तीति बाधार्या सामानाधिकरण्यम्, अत एव "तदनन्यत्वमारम्भयशब्दा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy