SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १७८ प्रत्यक्तत्त्वचिन्तामणौ दिभ्यः" (ब्र० सू० २।१।१४) इत्यत्र तस्मात्कारणरूपाद् ब्रह्मणः सकाशात्तस्य कार्य्यस्य प्रपञ्चस्यानन्यत्वं नाम भेदाभावो नत्वैक्यमिति भाष्ये भामत्याच "नह्यभेदं प्रतिपादयामः किन्तु भेदं व्यासेधाम:' इत्युक्तम् । तथा च ब्रह्मातिरिक्तसत्ताशून्यत्वमेव प्रपञ्चस्येति ब्रह्मसत्व प्रपञ्चसत्ता नान्येति समस्तवेदान्तरहस्यमित्यर्थः ॥ ५५ ॥ अतस्तज्ज्ञा ज्ञानं परपदमजं शुद्धममृतं । प्रपश्यन्तो नान्यज्जगदपि हि पश्यन्ति कलितम् । अनात्मज्ञा भिन्नं सकलमिदमध्यस्तमपि चाऽ- . परिच्छिन्ने द्वैतं भ्रमवशत ईक्षन्त इतरे ॥ ५६ ॥ विद्वदविद्वदनुभवयोर्भेदं दर्शयति-अत इति। यतो ब्रह्मसत्तातिरिक्तसत्ताशून्यमिदं जगद्विचित्रमतस्तज्ज्ञास्तद्ब्रह्म स्वानुभवारूढं प्रत्यगभिन्न जानन्तीति।तथा परपदम्, शुद्धं निरतिशयम् , ज्ञानं स्वप्रकाशम्,जन्मादि. विक्रियाशून्यम् , अमृतं नित्यमुक्तम् , प्रकर्षणासन्दिग्धाविपर्यस्तं पश्यन्तः सन्तोऽन्यत्वेन पुरा कल्पितं जगदपि हि यतो बोधेन बाधितं तस्मान्न पश्यन्ति । अनात्मज्ञा देहात्मबुद्धयो भिन्नं नामरूपजात्यादिगुणैविलक्षणं सकल मिदं कल्पितं द्वैतमपरिच्छिन्ने ब्रह्मणि भ्रमवशाद्वस्तुसदित्येवमीक्षन्ते पश्यन्ति, इतरे-स्वयञ्च विलक्षणजात्याद्यभिमानिन: सन्तः। अतो ज्ञानाज्ञानयोर्महदन्तरमित्यर्थः ॥ ५६ ॥ यथा रज्जुर्धान्त्या भुजग् वपुषा भात्यविकृता तथा भाति भ्रान्त्याऽविकृतमपि चिद्वस्तु जगता। न रज्जुः सो वा न च जगदिदं ब्रह्म विमलं विबुद्ध वैवं धीरस्त्यजति जडबुद्धिं निजधिया॥५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy