SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १५० प्रत्यक्तत्त्वचिन्तामणौ प्रज्ञानं तत्कार्य जगद्ममञ्च तत्त्वज्ञानं खोदयसमसमयं बाधते, प्रतो महता प्रयत्नेन तत्त्वज्ञानमेव सम्पाद्यमित्याह-प्रत इति। यतोऽज्ञानकृतेयं संसृतिरतः श्रवणमनननिदिध्यासनैरुत्पादिताब्रह्माज्ञानात्तस्याः संसृतेर्हेतुभूते उदिते उक्तलक्षणेऽज्ञाने प्रकर्षणात्यन्ताभावप्रतियोगितया विलयं बाधमिते प्राप्ते सति अविद्ययाऽनाद्यनिर्वाच्या - ज्ञानेनाऽध्यस्ता सा सर्वलोकबुद्धिस्था इयं प्रत्यक्षादिभिरनुभूयमाना जनिमृतिमयी संसृतिर्विनश्येद्विनश्यतीति सम्बन्धः। तदा ब्रह्मवित् प्रत्यगभिन्ने ब्रह्मैक्ये निजरूपे स्वात्मत्वेनावबुद्धे स्थितः सन् जयति सर्वोपरि वरीवर्ति, कृतकृत्यतया तिष्ठति । इतिशब्दःशास्त्रार्थपरिसमाप्तौ। इत्येव सर्ववेदान्तप्रमेयमित्यर्थः ॥ ५ ॥ अनृतजडविषादाकारमेतत्समस्तं जगदपि लयमेति प्रत्यगात्मैक्यदृष्टया। दूगपि भवति सा यद्भक्तिलेशन सम्यक तमहमखिलवन्द्यं कृष्णमेवावलम्बे ॥६॥ इति प्रत्यक्तत्त्वचिन्तामणौ चतुर्थ प्रकरणं सम्पूर्णम् ॥ ४ ॥ इयं ब्रह्मविद्या भगवद्भक्त्यधीना, “यस्य देवे परा भक्तिः" (श्वे० ६ । २३), "यमेष वृणुते तेन लभ्यः" ( मु० ३ । २ । ३) इत्यादिश्रुतेः। अत: सर्वोपायेन भगवद्भक्तिरेव मुमुक्षुभिरादर्तव्या, न वामन्तरेण संसृतेनिस्तार इत्याशयेन प्रकरणार्थ परिसमाप्य, स्वकृतिश्च भगवति समर्पयन्भवन्तं शरण्यत्वेनाऽऽश्रयति-अनृतेति। एतत्प्रत्यलादिभिरनुभूयमानं समस्तं जगदपिशब्दात्तन्मूलमज्ञानं तत्कार्यमनृतजडविषादाकारमनर्थपुखात्मकं यया प्रत्यगभिन्नब्रह्मसाक्षात्काररूपदृष्टया लयं बाधमेति प्राप्नोति, सा परब्रह्मात्मैक्यसाक्षात्काररूपादृष्टिरपि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy