________________
५८
प्रत्यक्तत्त्वचिन्तामण तत्राज्ञानं सकलविलयं स्फोरयन्बोधरूपो
निश्चेतव्यः सुखवपुरयं प्रत्यगात्मा तुरीयः ॥
जागत्स्वप्नावस्थयोः सर्वबुद्धिवृत्त्यवभासकतया साक्षिणं प्रसाध्य सुप्तौ तल्लयप्रकाशकत्वेन तं साधयति --सुप्ताविति। सुप्त्यवस्थायां सर्व मातृमानादि विश्व स्वकारणभूताज्ञाने विलयं व्रजति । तत्र सर्वबुद्धिवृत्तिविलयावभासकत्वेन द्रष्टुः स्वरूपभूताया दृष्टेर्न विलयो भवति, तन्नाशस्य ससाक्षिकत्वे साक्ष्यन्तरकल्पने तस्यापि तादवस्थ्यादनवस्थानादाद्यस्यैवावस्थानात् । निःसाक्षिकत्वे तु साधकाभावादेव साक्षिविनाशासिद्धेः। प्रत्युत "नहि द्रष्टुष्टेर्विपरिलोपो विद्यते - विनाशित्वात्' (बृ. ४ । ३ । २३) "अविनाशी वा अरे यमात्मा।" (वृ० ४।५।१४) इत्याद्याः शतं श्रुतयोऽपि तस्य नित्यतां गमयन्तीत्यर्थः । यद्यात्मनोऽपि नाश: स्यात्तर्हि सुषुप्तेस्तत्सुखस्य चानुभवितुरभावादुत्थितस्य 'सुखमहमस्वाप्सम्' इति स्वापसुखयोः स्मरणं न स्यादिति तत्परामर्शान्यथानुपपत्त्या तत्राज्ञानानुभवितृत्वेन साक्षिणं दर्शयतितत्रेति। सकलस्य स्थूलसूक्ष्मकार्यजातस्य विलयो यस्मिंस्तदज्ञानं कर्मीभूतं भासयन्ननुभवन् नित्यज्ञानघनो जागरे तत्परामर्शान्यथानुपपत्त्या निश्चेतव्यः-सर्वविलयभासकत्वेन स्वयं निरतिशयानन्दरूपः प्रत्यगात्मा तुरीयरूपोऽवस्थात्रयानुगतभानरूपतया त्वंपदार्थोऽसङ्गचिद्रूपत्वेनाध्यवसेय इत्यर्थः। नन्ववस्थात्रयसम्बन्धस्य सर्वानुभव. सिद्धत्वात् कथमस्यासंगत्वमिति शङ्को परिजिहीर्षः “शिवमद्वैतं चतुर्थ मन्यन्ते" ( माण्डू० ७) इति श्रुतिसिद्धमर्थमवस्थात्रयानुगतत्वेनाप्यसंगत्वरूपं दर्शयति-तुरीय इति । अयं भाव:-यद्यात्मन्यवः स्थात्रयं योगपद्येनानुवर्तेत, दहनपचनप्रकाशनशक्तय इव वह्नौ, यदि वा एकावस्थानुभूताः कतिपये वा धर्मा अवस्थान्तरेऽनुभूयेरन्, यथा बाल्याद्यवस्थानुभूता रूपगोत्रजातिप्रभृतयः शरीरयौवनेऽप्यनुभूयन्ते,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com