SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १३६ प्रत्यक तत्त्वचिन्तामया स्वयंप्रकाशोऽस्ति सुखस्वभावः स्वाविद्यया भाति जगत्स्वभावः ॥ ६१ ॥ प्रध्यस्तस्याधिष्ठानानतिरेकत्वं दर्शयन् फलितमाह — अध्यस्त सत्तेति । तथा च स्वप्रकाशत्वमजहदेवाSSत्मतत्त्वमज्ञानावृतत्वाज्जगदाकारेण भातीति फलितार्थः । अक्षरार्थस्तु निगदव्याख्यातः ॥ ६१ ॥ अनाद्यविद्यावरणावृतोऽसैा द्वैतात्मना भाति चिदद्वितीयः । असङ्ग आत्मा परमार्थतस्तु विज्ञानसारो भ्रमशून्य एकः ॥ ६२ ॥ अज्ञानकृतावरणमन्तरेण न स्वप्रकाशे शुद्धवस्तुनि जगदाकारता सङ्गच्छते, न वाऽज्ञानकल्पितेन जगता निर्विकारात्मस्वभावव्याहतिरपीत्याशयेनाह – प्रनादीति । निगदव्याख्यातं पद्यम् ॥ ६२ ॥ तस्मात्स्वतः सिद्धमखण्डतत्त्वं प्रत्यञ्च मानन्दमपारबोधस् । विध्वस्तमाया गुणसम्प्रवाहं ज्ञात्वा विमुच्येत मृषात्मबन्धात् ॥ ६३ ॥ प्रकृतमुपसंहरति- तस्मादिति । यस्मात्सर्वप्रमाणभासकोऽप्यात्मा लौकिकप्रमाणगोचरो न भवति, वेदान्तानामपि वेदान्तजन्यज्ञाननिवर्त्याज्ञानविषयत्वेनैव विषयो, न साक्षात्, तज्जन्यज्ञानभास्यत्वाभावात् । तस्मात्स्वतः सिद्धमित र निरपेक्ष प्रकाशस्वभावत्वेनैव सिद्धम्, प्रखण्डतत्त्वं स्वगतादिभेदशून्यमनारोपितवस्तु, प्रत्यश्वमा विद्यकदेहादि विल Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy