SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ तृतीयं प्रकरणम् । क्षणस्वभावत्वेन सर्वान्तरम् , आनन्दं निरुपाधिकनिरतिशयप्रेमास्पदतया सुखस्वरूपम्, न विद्यते पार आश्रयविषयसन्निकर्षादिकृत: परिच्छेदो यस्य बोधस्य तम्, अतः स्वरूपबोधमाहात्म्येनैव विध्वस्ता बाधिता मायाऽ. नाद्यनिर्वाच्या विद्या तत्कार्यभूतगुणसम्प्रवाहो जन्ममृत्युपरम्परालक्षण: संसारश्च यस्मिस्तमात्मानं ज्ञात्वा-वेदान्तवाक्यज्यासन्दिग्धाविपर्यस्तात्मबोधेन साक्षात्कृत्य, मृषाऽज्ञानकार्यतया प्रात्मनो बन्धः कत्तृ त्वभोक्तृत्वादिलक्षणः संसाराख्यस्तस्माद्विमुच्यते-विशेषेण पुनभवलक्षणवृत्तिरहिततया मुच्यते। कृतकृत्यो भूत्वा स्वात्मन्यवस्थितो भवतीत्यर्थः । एतादृशतत्त्वज्ञानमन्तरेण संसृतेर्मोक्षो नास्तीति भावः ।। ६३ ।। अध्यस्तमज्ञानकृतं प्रतीचि स्वतो विमुक्त जनिमृत्युबन्धम् । स्वात्मावबोधेन सालमद्धाऽ. पबाध्य जीवनिह मुच्यतेऽञ्जः॥६४ ॥ यदि बन्ध आत्मनि स्वाभाविकः स्यात्तदा स्वभावस्यान्यथाकर्तुमशक्यतया तत्त्वज्ञाननिवो न स्यात् । तत्त्वज्ञाननिवर्त्यत्वान्यथानुपपत्त्या बन्धस्याध्यस्तत्त्वं कल्प्यते । ततश्चाध्यस्तबन्धस्य मूलभूतमज्ञानमप्यध्यस्तमित्यभिप्रेत्याह-अध्यस्तमिति । स्वतो विमुक्ते इति हेतुगर्भविशेषणं स्वत: एव विमुक्तस्वभावत्वं बन्धस्याध्यस्तत्वं गमयति । तेन नित्यमुक्तस्वभावेऽज्ञाननिवृत्तिमन्तरा तत्त्वज्ञानकृतातिशयोऽपि नास्तीति सूदितम् ॥ ६४ ॥ प्रकृतिविकृतिभावं बाध्यमेवाऽपबाध्य श्रुतिशिखरगिरोत्थाद्वैततत्वावबोधात्। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy