SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ षष्ठं प्रकरणम् । २७७ भ्रमत्यवस्थात्रयसंयुतो भवे स्वाविद्ययाऽनात्मनि तत्त्वधीजनः। अनाद्यविद्यैव चिदद्वयात्मनि प्रपञ्चभानस्य हि कारणं मतम् ॥ ५३॥ एवमवस्थात्रयं सप्रकारं निरूप्येदानीमविद्याका-वस्थात्रयाध्यासवशेन जीवः संसरति। तत्र चाविद्यैव सर्वसंसारानर्थभावस्य कारणमित्याह-भ्रमतीति ॥ ५३ ।। यद्यप्युपादानतयाऽखिलस्या विद्या मता या परमात्मनिष्ठा। साक्षात्मवक्तं न च शक्यते सा तथापि कार्यात्मतयोच्यतेऽत्र ॥ ५४॥ अविद्यैव सर्वानर्थनिदानमित्युक्ते कासावविद्येत्यपेक्षायां साक्षानिर्देष्टुमशक्यतया कार्याकारेण परिणता सा निर्दिश्यते इत्याहयद्यपीति। अत्र वेदान्तशास्त्रे इत्यर्थः ॥ ५४॥ सत्यं सुखं चिद्धनमद्वयं परं सन्तं ययाऽऽत्मानमयं प्रपद्यते। संसार्यहं जीव इति प्रतीतितः साउनर्थधामास्ति विकल्पदायिनी ॥ ५५॥ असङ्गोदासीनस्वभावे प्रत्यगभिन्ने ब्रह्मणि संसारसम्बन्धप्रतीत्यन्यथानुपपत्त्याऽत्यन्तासम्भावितप्रदर्शिनी तत्त्वज्ञानमात्रैकनिवर्त्या मायादिशब्दवाच्याऽविद्या कल्प्यते इत्यभिप्रेत्याह-सत्यमिति । सच्चिदान Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy