________________
२७८
प्रत्यक्तत्त्वचिन्तामणौ न्तानन्दाद्वयमात्मानं सन्तमयं पुरुषो यया सर्वानर्थनिदानभूतया व्यामोहकशक्त्या वृतः सन् संसारी जीवोऽहमिति मिथ्याज्ञानात् प्रपद्यते, सा साक्षिगम्या अविद्यास्तीति योजना ।। ५५ ॥
अध्यासतो ब्रह्मणि चिद्धने परे
जीवत्वमाभाति भवाब्धिमज्जनम् । जाग्रन्मुखा भ्रान्तिकृता दशा इमाः
कूटस्थ आत्मन्यभिमन्यते मृषा ॥५६ ॥ अविद्याप्रयुक्ताध्यासादेव ब्रह्मस्वरूप प्रत्यगात्मनि जीवत्वं जाग्रदाद्या दशाश्चावभासन्ते इत्याह-अध्यासत इति। भवाब्धौ मज्जनं यस्मात्तज्जीवत्वमध्यासत: प्रत्यगभिन्ने ब्रह्मणि आभातीत्यन्वयः । भ्रान्तिकृता मिथ्याज्ञानप्रयुक्ता इमा जाग्रदाद्या दशाः कूटस्थे तुरीये प्रात्मनि मृषैवाभिमन्यते इति योजना ।। ५६ ॥
तवाभिमानेन निविष्टबुद्धिर्वि
स्मृत्य तत्त्वं परमेश्वरं स्वम् । स्रगादिभागेषु निबद्धतृष्णः
संसारजाले पततीतरः सन् ॥ ५७॥ एवं स्वस्वरूपाज्ञानेन प्रत्यगात्मनो जीवभावं प्रदर्थेदानी तत्प्रयुक्तबाह्यविषयाभिलाषनिगडबद्धस्य संसारसिन्धुपातोऽवश्यम्भावीत्याहतत्रेति । जाग्रदाद्यवस्थावति लिङ्गदेहे तदालये स्थूलशरीरे चाभिमानेन जीवः अहं कर्ता, भोक्ता, मनुष्यो, ब्राह्मणोऽहम्, इत्याद्यात्मकेन निविष्टा नितरां प्रविष्टा बुद्धिर्निश्चयात्मिका चेतावृत्तिर्यस्य सः, स्वं स्वात्मतत्त्वं परमेश्वराभिन्नं विस्मृत्य तद्विस्मरणेन स्रगादिभोगेषु निबद्धा तृष्णा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com