SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्तत्त्वचिन्तामणी मनासंयोगाच्चेद्वद कथमसौ योग उभयोः परिच्छिन्नेनाऽऽत्माविभुपि कथंयुज्यत इति॥१२॥ अध्यासं विना विभावात्मनि ज्ञानसुखाद्युत्पत्तिर्न कथमप्युपपादयितुं शक्येत्याह-गुणा इति। ये ज्ञानादयो प्रात्मनो विशेषगुणा. स्तवमतेऽभिमतास्तेषामुत्पत्तिस्तत्रात्मनि विभौ त्वया कथमभिमता इति भो वादिन् ! वदेति सम्बन्धः । अयमर्थ:-गुणश्च निरवयवद्रव्ये यावद्रव्यभावी दृष्टः, यथा परमाणुगतरूपादिः, यथा वाऽऽत्मगतसंख्यापरिमाणादिः। न चाऽऽत्मगतसंयोगविभागयोर्व्यभिचार इति वाच्यम् , तयारद्यापि सद्भावस्यैवाऽनिश्चयात् । तथा सत्यात्मनि ज्ञानसुखादयो जायमाना देहाधवच्छिन्नदेशादन्यत्र जायेरन्निति । ननु सर्व कारणत्रयमपेक्ष्यैव जायते, तत्र ज्ञानादेर्गुणस्यात्मा समवायिकारणम्, मनःसंयोगोऽसमवायिकारणम्', अदृष्टादि निमित्तकारणम् । ततश्च हृदयदेशावस्थानान्मनसो हृदयावच्छिन्नात्मदेशेनैव संयोगातत्रैव सुखादयो जायन्ते न तथा संख्यापरिमाणादय इत्याशङक्याहमन:संयोगादिति। आत्मनो हृदयावच्छेदो नाम किमात्मस्वरूपमेव ? उत धर्मान्तरम् १ स्वरूपं चेत्, तस्य सर्वगतत्वात्सर्वत्रैव सुखादयो जायेरन् । धर्मान्तरुचेत्, किं स्वरूपमात्रे वतिष्ठते ? किं वाऽवच्छिन्नदेशे ? आये, तस्य सर्वात्मदेशव्यापित्वात्सुखादयो जायेरन् । द्वितीये, तस्याप्यवच्छेदान्तरापेक्षायामनवस्था। एवं सति कथमध्यासमन्तरेण संसारोपलम्भ इति तात्पर्यार्थः ।। १२ ॥ विभुत्वादात्माऽयं क्वचिदपि वियोगं न भजते न वा संयोगं सोऽनवयववपुर्मायिकमृते। अदृष्टैः सम्बन्धो यदि तदपि सम्यङन घटते न दिक्शून्येऽदृष्टैरपि घटयितुं शक्यमुचितम् ॥१३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy