SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १७४ प्रत्यक्तत्त्वचिन्तामणी नहि कचिदपि देशे काले वा नरशशयोर्विषाणं शृङ्ग जायते, सम्भवति, दृष्टं वेति। स्वसत्तासम्बन्धी हि जनिः सर्वथा सत्त्वविरहे कथं स्यात् ? नहि अलीकस्य खकारणसम्बन्धनिरूपकत्वं स्वसत्तासमवायाधारत्वं वा जन्मलक्षणं सङ्गच्छते। तस्माजनिमत्वात् कार्य जगदलीकमपि वक्तुं न शक्यमित्यर्थः ।। ४६ ॥ त्रिकालाबाध्यं यत्तदमृतमिदं तर्हि न कदा जगज्जायेतेह क्वचिदपि न सत्तादिविरहः। न हेतोः साफल्यं तत इदमनिर्वाच्यमुचितं जगज्जन्यत्वं तद् गमयति च मायात्वमनृतम् ॥५०॥ तास्तु सत्यमेवेदं जगत्, नेत्याह-त्रिकालाबाध्यमिति । यत्सत्यं कालत्रयेऽप्यबाध्यम्, तदमृतमविनाशि, यथाऽऽत्मतत्त्वम् ; तथेदं जगच्चेस्यात्, तर्हि न कदाचिदपि जायेत, यत इह सद्वस्तुविषये सत्तादिविरहो न कचिदपि देशेकाले वा सम्भवति। नहि सत्यस्य कदापि सत्तावियोगोऽन्यथा सत्यत्वव्याघातापत्तिः स्यात् । न वा जगतः सत्यत्व. पक्षे हेता: कारणस्य तद्व्यापारस्य वा साफल्यम् । तस्मात्सदसद्भया निर्वक्तुमशक्यत्वाज्जगतो जन्यत्वमेव । तदुक्तलक्षणं स्वाधिष्ठाननिष्ठात्यन्ताभावप्रतियोगित्वं मायात्वं मायाकार्यत्वादनृतमनिर्वाच्यरूपत्वमवगमयतीत्यर्थः । तदुक्तं "यथा सतो जनि वमसतोऽपि जनिन च । जन्यत्वमेव जन्यस्य मायिकत्वसमर्पकम् ॥” इति ॥ ५० ॥ न सत्यस्यासत्ये जगति किल हेतुत्वमुचितं विनाविद्यां रज्जुर्जनयति न सादिकलनाम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy