SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ चतुर्थ प्रकरणम् । १७५ अतो हेतुः कार्यानुगुणमिदमज्ञानमुचितं स्वशक्त्यानन्त्यात्तत्क्षमतममने रचयितुम् ॥५१॥ ननु ब्रह्मैव जगत: कारणं किन्न स्यात् ? सन्ति हि ब्रह्मकार्यत्ववादिन्यः श्रुतयः स्मृतयश्च सहस्रशः। तथा च किमनाद्यविद्याकल्पनयेत्याशझ्याह-नेति । किलेति प्रसिद्धमेतत्, यतः सजातीययोरेव कार्यकारणभाव इति । विनाऽनाद्यनिर्वाच्यामविद्यां सत्यस्य ब्रह्मणो - सत्येऽनिर्वाच्ये जगति हेतुत्वं श्रुत्युक्तमपि कारणत्वं नोचितम्-न सङ्गच्छते। नहि रज्जुः स्वावच्छिन्नचैतन्यनिष्ठामविद्यामन्तरेण सर्पादिकल्पनां जनयति। अतो वेदान्तानुकूलतर्केणापि कार्यानुगुणमज्ञानमिदं कारणत्वेनोचितम् । न चाऽज्ञानमेकं कथं विचित्रकार्यजनक स्यादिति वाच्यम् , तस्यैकत्वेऽपि “इन्द्रो मायाभिः पुरुरूप ईयते" (६० २।५।१६) इति श्रुत्या स्वशक्तयानन्त्यादज्ञानशक्तीनामानन्त्यात्तदज्ञानमेकमेव जगदनेकविधं विचित्ररचनारूपं रचयितुं स्वाधिष्ठाने कल्पयितुं क्षमतममत्यन्तसमर्थ "किमज्ञानस्य दुष्करम्' इति न्यायेनेत्यर्थः । श्रुतीनां तन्मूलकस्मृतीनाञ्चाऽद्वितीये ब्रह्मणि तात्पर्यान्न कार्यकारणभावे। अवोऽद्वये वस्तुनि सम्भावनावताराय ब्रह्मणः कारणत्वोक्तिरित्युक्तमधस्तादित्यलम् ॥ ५१ ॥ अतोऽविद्याध्यस्तं जगदिदमनिर्वाच्यममृते न चादृष्टादीनामनृतजडमज्ञानकमृते। वचित्स्वातन्त्र्यं तत्कृतजगति तद्वारत इमे विकारा मध्यस्ता विकृतसुखेऽज्ञानशबले ॥५२॥ फलितमाह-अत इति । न चादृष्टादीनामनिर्वाच्याज्ञानमन्तरेण कचित्कार्ये स्वातन्त्र्यम्, किन्तु तत्कृतेऽज्ञानपरिकल्पिते जगति तदज्ञान Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy