SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १९५ प्रत्यक्तत्त्वचिन्तामा प्रसङ्ग सर्वसम्बन्धातीतम्, अच्छं विशुद्धमपि ब्रह्मैव स्वाविद्यावृतस्वरूपत्वात् जीवत्वं लिङ्गदेहाध्यासेनान्त:करणावच्छिन्नत्वमनाद्यनिर्वाच्यमाश्रित्य-स्वस्मिन्नध्यस्य भवं संसारमनन्तदुःखालयं प्रयातीति योजना ॥ ४२॥ . चैतन्यमेवानुगतं विशुद्धं सामान्यमेकं [भयत्र वस्तु । उपाधिभेदेन विभाग इत्थं . जीवोऽयमीशोऽयमिदं जगच्च ॥४३॥ एकमेव चैतन्यमुपाधिभेदेन जीवत्वम् , ईश्वरत्वम् , जगत्त्वञ्च स्वस्मिन्नध्यस्य नानारूपेण भातीत्याह-चैतन्यमिति । उभयत्र जीवे परमेश्वरे च । हीति श्रुतिस्मृतिविद्वज्जनानुभवप्रसिद्धमेकमेव चैतन्यमनुगतमित्यर्थः । सुगममन्यत् ॥ ४३ ॥ त्रिविधविश्वमिदं परमेशितु___ र्व्यवहृतौ स्फुरति स्वचिदञ्चितम् । विषयवृत्तिहृदां भिदयाऽनृतं जगदुपेक्ष्य विचार्यमिदं पदम् ॥ ४४ ॥ प्रमातृत्वाधुपाध्यन्तःकरणाद्युपेक्ष्य सर्वत्रानुगतचैतन्यं यावत्तत्त्व. साक्षात्कारं विचारणीयमित्याह-त्रिविधमिति । परमेशितुर्मायाशबलाद् ब्रह्मणः सकाशात् त्रिविधं प्रमात्रादिभेदेन त्रिप्रकारकं विश्वं भूतभौतिकरूपं स्थिरजङ्गमात्मकञ्च त्रिगुणात्मकमिदं प्रत्यक्षादिसिद्धं समुत्पद्य, व्यवहृतो स्थितिसमये स्वचिदश्चितं स्वात्मचैतन्यखचितं सत्-विषयो घटादिविषयचैतन्योपाधिः, वृत्तिर्घटाद्याकारान्तःकरण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy