________________
पञ्चमं प्रकरणम् ।
१६७ खरूपस्याऽनुभूतिर्निरावरणतत्त्वावबोधः स्वत एव यस्य सः, अत एव आत्मोस्थोऽप्रच्युतस्वरूपः, अत एव स्वतन्त्रः, यत उदारशक्तिरुदाराऽपरिच्छिन्नाऽव्याहता शक्तिर्मायाख्या स्वरूपस्फूर्त्यात्मिका वा यस्य स इति योजना ॥ ४०॥
न तत्र मायाकृतदोष ईषत्
स्वबोधतेजोऽनभिभूतधाम्नि । स्वीये महिम्नि स्थित एव सर्व
करोत्यकर्ताऽवति हन्त्यसङ्गः॥४१॥ तस्य जगजन्मादिकारणत्वेऽपि मायोत्थविकारैरसंस्पृष्टत्वमित्याहनेति । तत्र हेतुः-स्वबोधतेजसा निजबोधप्रतापेनैव मायाविज़म्म?रनभिभूतमुलूकादिदिवान्धपरिकल्पिततमोविजृम्भौमध्यन्दिनवर्तिप्रचण्डमार्तण्डमण्डलमिवानास्कन्दितं धाम स्वरूपं यस्य तस्मिन् स्वीये महिम्नि स्थित एव सन् सृष्टिकाले सर्व विश्वं करोति सृजति-स्वसत्तास्फूर्तिदानेन स्वस्मिन्नध्यस्तं प्रकाशयति, स्वतोऽकत्तैव सन् स्वानन्दलवदानेन स्थितिकालेऽवति पालयति, लये सर्व स्वस्मिन्ननन्यरूपेणाकर्षकत्वेन हन्ति संहरति; तथापि सर्वदा स्वतोऽसङ्ग एवेत्यर्थः ॥४१॥
अखण्डमद्वैतमसङ्गमच्छं
ब्रह्माप्यविद्यावृतभावतस्तत् । अनाद्यनिर्वाच्यमनन्तदुःखं
जीवत्वमाश्रित्य भवं प्रयाति ॥ ४२ ॥
तस्यैव ब्रह्मणोऽविद्याशुपाधिकस्य स्वस्वरूपावरणेनैव जीवत्वमाहअखण्डमिति । वस्तुतोऽखण्ड स्वगतादिभेदशून्यम् , अद्वैतम,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com