SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रकरणम् । १८६ परिणामविशेषः प्रमाणचैतन्योपाधिः, हृद् अन्तःकरणं धर्मि प्रमातृचैतन्योपाधिः, तेषां भिदया भेदेन-स्फुरति कादिरूपेण भासते । तत्रानृतमनिर्वाच्याविद्याकार्य्यमन्तःकरणादिजगत्कार्यजातमुपेक्ष्याध्यस्तत्वेनाविद्यमानवत्कृत्वा इदं नित्यापरोक्षचैतन्यं पदं पद्यते। श्रवणादिपरिपाकोऽस्य तत्त्वसाक्षात्कारेण फलत्वेन गम्यते इति पदं नित्यमेव विचार्य्यमित्यर्थः। त्वदुक्तम् "जाग्रतः स्वपतो वापि गच्छतस्तिष्ठताऽपि वा। न विचारपररुचेतो यस्यासौ मृत उच्यते ॥" "तस्मादध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते' इति न्यायेन ब्रह्मतत्त्वसाक्षात्काराय सर्वत्रवेदान्तेषु दृश्यमद्वितीये तत्वे पारोप्य, तत्रैव पुनः प्रतिषिध्य, तत्त्वं प्रतिपाद्यते; तथाऽत्रापि वेदान्तप्रकरणत्वात् प्रतिपाद्यतत्त्वबोधायेत्थं विचारणेति भावः ॥ ४४ ॥ सकलगा चितिरात्मपदाभिधा जडमषाऽऽवरणात्मिकयाऽजया। निजपदाश्रययाऽपि समावृता सृजति भेदमभेदवपुः सती ॥४५॥ सर्वगस्यापि चैतन्यस्य स्वाश्रयस्वविषयाज्ञानावृतस्य परिच्छिन्नजडत्वाद्याकारेण स्फूर्तिरित्याह-सकलगेति । प्रात्मपदवाच्या चितिश्चैतन्यं ब्रह्म निजपदाश्रययापि निजमात्मतत्त्वमेव पदं तदाश्रयापि अजया अनाद्यविद्यया जडा चैतन्यस्फूर्त्यधीना, मृषा चैतन्यसत्ताधीना, आवरणाऽऽत्मिका निर्वाच्यभावरूपा तया सम्यगाऽऽच्छादिता वस्तुता भेदशून्याऽपि चितिः सती अबाधितस्वरूपा भेदं प्रमात्रादिविभ्रम सृजतीति योजना ॥४५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy