SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २०० प्रत्यक्तत्त्वचिन्तामणी अनाद्यविद्या परमात्मतत्व मावृत्य सर्वत्र गतं स्थितेयम् । अनेकविश्वात्मतया विचित्रा विवर्त्तते भाववपुश्चिदिद्धा॥४६ ॥ एवमुपोद्घातं सपरिकरमुपवर्ण्य प्रतिकर्मव्यवस्थामुपपादयितुमुपक्रमते-अनादीति । सर्वानुस्यूतपरमात्मतत्त्वमियं साक्षिप्रत्यक्षगम्या नाद्यविद्याऽऽवृत्य चिता स्वाधिष्ठानचैतन्येनेद्धा उद्दीपिता प्रतिबिम्बदानेनानेकविश्वाकारतया विवर्त्तते; विचित्राऽदृष्टादिसहकृता सती भाववपुः कार्यमा प्रति हेतुत्वादिभावविलक्षणेति योजना ॥ ४६॥ तत्र स्थितोऽन्तःकरणं शरीरे विद्याविवों नयनादिवृत्त्या। निर्गत्य संव्याप्य यथोचितं तद् घटादिवस्त्वस्ति हि तत्तदात्म ॥४७॥ विचित्रविवर्त्ततामाह--तत्रेति । अविद्याविवर्तेषु मध्येऽन्तःकरणाख्यस्तद्विवर्त्तः शरीरमध्ये स्थितो धर्माधर्मप्रेरितो नेत्रादिद्वारा निर्गत्य, यथोचितं घटादिविषयान् व्याप्य, तत्तदाकारी भवतीत्यर्थः ॥४७॥ तटाकस्थं जलं सेतुगतच्छिद्राद्यया स्वयम् । कुल्यात्मना विनिर्गत्य केदारान् सम्प्रविश्य च ॥४८॥ चतुष्कोणतया तद्वत् त्रिकोणत्वेन वाऽन्यथा। तत्तत्केदाररूपेण भवतीदं मनस्तथा ॥४८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy