________________
पञ्चमं प्रकरणम् ।
२०१ एतदेव दृष्टान्तेन विवृणोति--तटाकस्थमिति । यथा लोके पूर्णतटाकस्थमुदकं सेतुगतच्छिद्रान्निर्गत्य, कुल्याप्रवाहरूपेण केदारान् प्रविश्य, चतुष्कोणत्वेन त्रिकोणत्वेन वर्तुलत्वेन वा तचत्केदारानुसार्येवाऽवतिष्ठते, तद्वन्मनोऽपीति द्वयोर्योजना ॥४८-४६॥
न स्यन्दते मन इदं जलवत्क्रमेण
किन्त्वकरश्मिवदिदं खलु तैजसत्वात् । दीर्घप्रभाकृतितया परिणाममेति
सङ्कोचमेति सहसा रविरश्मिवच्च ॥ ५० ॥
तत्तदाकारांशमाने जलदृष्टान्तो न तु तद्वन्मनसः स्यन्दन किन्त्वन्यथैवेति दृष्टान्तान्तरेण मनसो झटित्येव तत्तद्देशप्राप्ति सम्भावयतिनेति। ना दकवदन्तःकरणं परिस्यन्दते, येनातिदूरवर्तिचन्द्रनक्षत्रध्रुवादिप्राप्तिर्न सिद्ध्येत्, किं तर्हि सूर्यरश्मिवत्तैजसत्वादोर्घप्रभाकारेण परिणमते । अत एव रश्मिवत् सहसा सङ्कोचोऽप्युपपन्न इत्यर्थः ॥ ५० ॥
दूरस्थितेन्दुगुरुशुक्रबुधध्रुवादि
प्राप्ति:टित्यपि ततो मनसोऽस्य सिद्ध्येत् । क्षीरादिवत्परिणतिस्तत एव सिद्धा
चित्तस्य सावयवरूपतयाऽऽदिमत्त्वात् ॥५१॥
उक्तमर्थ स्पष्टयन्नन्तःकरणस्य सावयवत्वात् क्षीरादिवत्परिणामोऽप्युपपन्न इत्याह-दूरेति । तस्य सावयवत्वम्, "तन्मनोऽसृजत" इति श्रुतिसिद्धादिमत्त्वादित्यर्थः। सुगममन्यत् ॥ ५१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com