SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्तत्त्वचिन्तामणी विष्णोर्नाम्नां कथनमनिशं कीर्तनं तद्गुणानां दास्यं कर्माखिलमपि कृतं केशवस्याज्ञयाऽस्तु । तत्संतुष्ट्यै स च मम गतिस्तस्य दासोऽस्मि नित्यं सर्व विश्वं हरिरितिवचो वाचिकी भक्तिरिष्टा ॥२३॥ वाचिकी भक्तिमाह-विष्णोरिति । दास्यं कैर्य केशवस्य ममाऽस्तु, तदाज्ञयाऽखिलमपि मया कर्म कृतं तत्सन्तुष्ट्यै, स च मम गतिरित्या दिकथनं वाचिकी भक्तिरिष्टा। शेषं स्पष्टम् । ननु "श्रवणं कीर्तनं विष्णो: स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥" (भा० ७ । ५ । २३ ) इत्यादिना नवविधा भक्तिः श्रूयते कुतस्तत्रौविध्यमिति चेन्मैवम् । उत्पत्तिवाक्ये संख्यातिरेकेऽपि कायिकत्वादिना समुदायत्रयं कृत्वा अधिकारवाक्ये फलसम्बन्धविधानेन त्रित्वाविरोधात् । “आग्नेयोष्टाकपालः पुरोडाशः पौर्णमास्याममावास्यायाञ्चाच्युतो भवति" इत्युभयत्राष्टाकपालः प्रथमं हविर्भवति । एवमग्नोषोमीय: पौर्णमास्याम् , ऐन्द्रामोऽमावस्यायां द्वितीयं हविरिति। एकादशकपाल: पुरोडाशः अग्नीषोमीयः पौर्णमास्याम् , ऐन्द्राग्नो द्वादशकपाल: पुरोडाशो दर्शे द्वितीयम् ' एवमग्नीषोमावुपाश्वाज्यस्य विष्णुर्वाऽमावस्यायामिति । पौर्णमासे अग्नीषोमौ चतुहीताज्येन, दर्श विष्णुं चतुर्ग्रहीताज्येन, उभयत्र अन्तरा याग:* इत्याग्नेयादिवाक्ये षट् कर्माणि विधाय “दर्शपूर्णमासाभ्यां स्वर्ग* सारांशोऽयं श्रुतीनाम्, श्रतयस्त्वानुपूय॑णेत्थं सन्ति"यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति" (तै० सं०) "ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्" (ले० सं०) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy