SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ २६ प्रथमं प्रकरणम् । नाश्रयणम् । श्रद्वा तत्रातिशयेनास्तिक्यबुद्धिः स्मरणमनिशं नित्यं तदनुसन्धानम् । स्वात्मत्वेनाभिमतो यो देहस्तस्यार्पणम् , दास्यभावेन समर्पणमित्यर्थः। स्वतनुभरणे स्वशरीरपोषणे स्वकीये पुत्रादौ यत्पषिणादिस्तत्रौदासीन्यं पक्षपातराहित्यम्, ममत्यभिनिवेशाभाव इति यावत् । आत्मानमहङ्कारास्पदं जीवं हरौ मंगवति समय॑ तस्यापि बन्धमाक्षादाबादासीन्यं कृत्वा यच्चेतसोऽवस्थानमिति शेषः । एप। सानसी भक्तिः। निगम विहितेत्यत्राप्यनुपज्यते ।। २१ ।। कर्णाभ्यां तच्छ्रवणमानशं सज्जनानां मुखाजाद् नित्यं सेवा मधुरिपुगृहे मार्जनादिप्रकारैः। अर्चा विष्णोविविधसुरभिद्रव्यलेषादि देहे पञ्चाङ्गायै मनमुदितं वन्दनं कापिकीयम् ॥२२॥ कायिकी भक्ति दर्शयति-काभ्यामिति ! सज्जनानां भगवत्पराणां मुखार विन्दात्तन्छवणं तस्य भगवतो नानालीलास्पदत्वेन श्रवणं कर्णाभ्यामक्षरानुपूावधारणम् । यदा तात्पर्यावधारणं तदा मानसी भक्तिः। यत्र भगवत्परा भगवन्तं कीर्तयन्ति तत्रादरंण नित्यमंव गन्तव्यमित्यर्थः मधोरमुरविशेषस्य प्रलयसमुद्रे हिरण्यगर्भविनाशोन्मुखस्य वेदाहरणे महत्तस्य रिपुर्निजभक्तस्य ब्रह्मणा रक्षणार्थ घातकस्तस्य भगवतो गृह हरिमन्दिरे मार्जनोपलेपनादिप्रकारैर्नित्यमयन्तोसाहेन सेवा सेवनं तत्कैङ्र्यमिति यावत् । विष्णोदेहे श्रीमूर्तिविग्रहे विविधसुरभिविशिष्टद्रव्याणि श्रीखण्डचन्दनादीनि तैलेपादि लेपनम् , पत्रभङ्गयादिरचनारूपम्, अर्चा आह्वानादिषोडशोपचारैर्भगवतः श्रीकृष्णस्य पूजनम्, पञ्चाङ्गानिमनं पञ्चाङ्गादिप्रणामस्तदेव शास्त्रे बन्दनमिति कथितम् । इयं कायिकी भक्तिरुपदिष्टेत्यर्थः ।। २२ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy