SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ६५ प्रथमं प्रकरणम् । ---- -- कात्मविज्ञानस्य भेदज्ञानेन विरोधोऽस्ति, विद्याऽविद्याविषयत्वेन प्रामाण्यस्य व्यवस्थितत्वादित्याह -- भेदाभेदाविति । " दूरमेते विपते विषूची अविद्या या च विद्येति ज्ञाता" ( कठ० २ । ४ ) इति श्रुत्या विद्या वेदान्तप्रमाणजन्या प्रमा, अविद्याऽनाद्यनिर्वाच्याध्यासहेतुरज्ञानम्, ताभ्यां पृथक्ततयाऽधिगता भेदाभेदा । अविद्यया भेदोधिगतः, विद्ययाऽभेदोऽधिगत इति विवेकः । तथा च श्रुतिः - ' यत्र हि द्वैतमिव भवति” (बृ०२ । ४ । १४ ) इत्यत्रेवशब्देन द्वैतप्रपञ्चस्य मिथ्यात्वमभिधाय " तदितर इतरं पश्यति" (बृ०२|४|१४ ) इति भ्रान्तिकाले तस्यामेवावस्थायां भ्रमवशगतोऽध्यासव्याप्तः पुरुषो मृषा भेदं पश्यतीति भ्रान्तिसिद्धमनुवदतीत्यर्थः । विद्याविषये च "यत्र त्वस्य सर्वमात्मैवाऽभूत्” ( बृ० २ । ४ । १४ ) इति श्रुतिः सकलव्यवहाराभावं शुद्धबोधरूपेणावस्थानश्च वदन्ती तत्केन कं पश्येत् " ( वृ० २ । ४ । १४ ) इति सकलभेदं निषेधतीत्यर्थः ॥ ५३ ॥ प्रत्यक्षेण त्वमहमिति यन्नात्मभेदावगाहि ज्ञान' किन्तु भ्रमतिमिरजानात्मभेदावगाहि । नात्मानं तत्क्षमत उदितं वीक्षितुं वा कटाक्षात् नास्मिन्भेदं ह्यनुमितिरपि प्रत्यनीका नुमानात् ॥ ५४ ॥ यत्तूक्तं प्रत्यक्षेण त्वम्, अहम, प्रसाविति भेदमीक्षामहे इति तत्राहप्रत्यक्षेणेति । त्वमहमित्यादिप्रत्यक्षं नात्मभेदावगाहि, श्रात्मान्तरस्य बाह्येन्द्रियगोचरत्वाभ्युपगमात्, मनसश्च स्वात्मनोऽन्यत्र प्रवृत्त्यनङ्गीकारात्, तत्त्वदर्शनप्रद्वेषितया साक्षिप्रत्यक्षानाश्रययाच आत्मनः प्रत्यक्तत्वस्य भेदं न विषयीकरोतीत्यर्थः । ननु तर्हि प्रत्यक्षप्रमाणं निर्विषयमेव स्यादिति नेत्याह — किन्त्विति । किन्तु भ्रमोऽध्यासः स एव तिमिरमिव यथास्थितं वस्तु प्रावृत्य अन्यथा ग्रहणात्मकत्वात् तजन्यो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy