SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ६६ प्रत्यकूतत्त्वचिन्तामणैौ योऽनात्मभेदा देहाद्युपाधिभेदस्तदवगाहि तमेव विषयोकरोतीत्यात्मानं प्रत्यक्तत्वमुदितं यथेोक्तं कटाचादपि वीक्षितुं लेशेनापि विषयीकर्त्तु तत्प्रत्यक्षं न क्षमते, भेदज्ञानस्य प्रतियोग्यादिज्ञानपूर्वकत्वात् । प्रतियोग्याद्यात्मनोऽतीन्द्रियत्वात्प्रत्यक्षेण ग्रहीतुमशक्यतया नात्मभेदावगाहित्व ं प्रत्यक्षस्येति भावः । नापि त्वदुक्तानुमानगोचरता तदस्येत्याह - नास्मिन्निति । अस्मिन्नात्मनि भेदं नानुमितिरप्यनुमानमपि वीक्षितुं क्षमते इत्यत्राप्यनुषज्यते । तत्र हेतु: प्रत्यनीकानुमानात् तत्प्रतिद्वन्द्विरूपानुमानसद्भावादित्यर्थः । तथाहि-- विमतानि शरीराणि प्रतिवाद्यात्मनैवात्मवन्ति, शरीरव्यक्तित्वात् प्रतिवादिशरीरवत् । न चात्मनां सर्वगतत्वात्प्रतिवाद्यात्मनः सर्वशरीरसंयोगात्सर्वतात्मवादिनः सर्वशरीराणां प्रतिवाद्यात्मना आत्मवत्त्व सिद्धमेव साध्यते इति वाच्यम्, सर्वशरीराणामेकचेतनं प्रति भोगायतनत्वस्यैव सिसाधयिषितत्वात्; एकस्यैवात्मान्तराभावस्य परेषामनिष्टस्य साध्यत्वाच्चेत्यर्थः ः ।। ५४ ।। बुद्धेर्धर्माः सुखकृतिमुखा नात्मना निर्गुणस्य श्रेयाबन्धौ जननमरणे कल्पिता माययैते । बुद्धिद्वारा विकृतव पुषि स्वात्मतत्त्वे विशुद्धे नाध्यस्तैः क्षतिरथ गुणः खल्वधिष्ठानतत्त्वे ॥ ५५॥ यद्दपीदमुक्तं देवतिर्यङ्मनुष्यादिगतसुखदुःखादीनि भिन्नाश्रयाणि, विरुद्धानेकधर्मत्वादिति । तत्र किमनेकाश्रयत्वमात्रं साध्यते ? किं वाऽनेकात्माश्रयत्वमिति ? प्राद्ये सिद्धसाधनम्, अन्तःकरणामनेकत्वात्; तदाश्रयत्वाभ्युपगमाच्च सुखदुःखादीनामिति । द्वितीये साध्यविकलो दृष्टान्तः, क्वचिदप्यनेकात्माश्रयधर्मा सिद्धेरित्याशयेनाह - बुद्धरिति । सुखादयो बुद्धेरेव धर्माः, न तु निर्गुणस्यात्मतत्त्वस्य, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy