SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १७२ प्रत्यक्तत्त्वचिन्तामणी ततः शुद्धाद्वैतात्पृथगखिलमाविद्यकमिदं यतो ज्ञानज्ञेयात्मकजगति विभ्रान्तिनिविडे । प्रतीतेः सत्त्वं नो पृथगिति विवेकेन विदितं जगन्मिथ्या सत्यं सुखनिधि परब्रह्म तदिति ॥४६॥ ततः किमित्यत आह-तत इति। शुद्धमविद्यातत्का-संस्पृष्ट यदद्वैतं वस्तु ततः पृथक् तस्मिन्नध्यस्तमखिलमाविद्यकमेवेदेदं जगत्कुतो यतो ज्ञानज्ञेयस्वरूपे जगति विभ्रान्तिनिविडे भ्रममात्रैकशरीरे प्रतीतेविभ्रमरूपाया: पृथग्विलक्षणं सत्त्वं नास्तीति विवेकेन विदितं सत् जगन्मिथ्या स्वाधिष्ठानवृत्तित्रैकालिकाभावप्रतियोगितया अत्यन्ततुच्छमिति फलितम् । तदधिष्ठानं परब्रह्म तेनासंस्पृष्टतया सुखनिधिरूपमेवापरिच्छिन्नमिति सिद्धमित्यर्थः ॥ ४६॥ अविद्यायोनित्वं वदसि जगतस्त्वं कथमहो न चैकस्माद्धेतार्बहुविमिदं कार्यमुचितम् । अदृष्टेशादिभ्या जगदिदमुदेतीति यदि भोः किमर्थ मिथ्येयं जडवपुरविद्याऽभ्युपगता॥ ४७ ॥ प्रपञ्चस्याऽऽविद्यकत्वमलहमानःशङ्कते--अविद्यायोनित्वमिति । अहो आश्चर्यमेतत्, यद्विचित्ररचनामनुभूयापि जगतोऽविद्याकार्यत्वं वदसि । नह्य कस्मादविचित्रादविद्याख्यात् कारणाद्वहुविधं विचित्रमिदं कार्य भवितुं योग्यम् । भो वेदान्तिन् ! यद्यदृष्टेश्वरादिभ्यस्तदिदं विचित्रं जगदुदेतीति स्वीकरोषि, तर्हि किमर्थ मिथ्येयं जडवपुश्चाऽविद्या अजागलस्तनायमाना स्वीकृतेति। वदेति शेषः। नहि प्रामाणिकैराग्रहेण वृथा किञ्चिदभ्युपगम्यते। अन्यथा प्रामाणिकत्वमेव भज्यतेति भावः ॥४७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy