SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १४८ प्रत्यक्तत्त्वचिन्तामा सतावत्संसारं जनिमृतिमयं मायिकमिमं सदित्येवं वेत्ति प्रबलतमसा संवृतमतिः ॥१५॥ यत्तूक्तमबाधितप्रतीतिगोचरत्वात् सत्य एव संसारस्तदपि दुस्तांग्रहविलसितमित्यभिप्रेत्याह-नेति । यावत्पर्यन्तं तत्त्वम. स्यादिशास्त्रं विधिना सम्यग्गुरूपदिष्टोपक्रमादिलिङ्गैरालोच्य स्वमात्मानम् , अकलं षोडशकलात्मकलिङ्गशरीरवर्जितम् , अजं जन्मादिषड - भावविकारवत्स्थूल शरीररहितम् , परं ब्रह्मैवास्मीत्यनुभवात् साक्षात्काररूपान्न वेत्ति; तावत्कालपर्यन्तं स पुरुष: प्रबलतमसा दुस्तराज्ञानान्धकारेणऽऽवृतमतिर्जन्मादिप्रचुर संसारं मायाविकारमिमं प्रत्यक्षा. दिभिरवगतमर्थक्रियासमर्थत्वेनानुभूयमानतया सदित्येवं वेत्ति । ततश्च संसृतिभाग भवतीत्यर्थः ॥ १५॥ मृषात्वं विश्वस्य श्रुतिरपि वदत्येव शतशः प्रतीचोऽपि ब्रह्माद्वयसुखघनात्मत्वमिति च । मनुष्यत्वाद्यात्मन्यनृतमखिलं बाध्यत इतो न सत्यः संसारोऽप्यनुभवत इत्येव फलितम्॥१६॥ जगतो मिथ्यात्वे प्रत्यगात्मनो ब्रह्मत्वे च सकलप्रमाणमूर्द्धन्यवेदान्ताः प्रमाणमित्याह-मृषात्वमिति। "अतोऽन्यदातम्' (बृ० ३।४।२)"नेहनानास्ति किश्चन" (बृ०४।४।१६) इत्यादिश्रुतिरपि शतशो वचनसमूहैर्विश्वस्य कार्यकारयात्मकस्य मिथ्यात्वं वदति "तत्त्वमसि' (छा०६। ८७) "अयमात्मा ब्रह्म' (बृ. २।५।१६) "अहं ब्रह्मास्मि" (बृ०१।४।१०)इत्यादिश्रुतिः सहस्रशो यद्ब्रह्माद्वयसुखघनमखण्डानन्दब्रह्मतत्त्वमेकरसं तदात्मत्वं प्रतीचः प्रत्यगात्मनो वदति । इत्यतो वेदान्तजन्यबोधेनात्मन्यखिलं मनुष्यत्वादिविभ्रमात्मकं जगद् बाध्यते, इतस्तत्त्वज्ञानवाधान्यथानुपपत्तेन संसारसत्यत्वम् , लोके रज्जुज्ञानबाधा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy