________________
षष्ठं प्रकरणम् ।
२४५ मायायां स्वप्रतिबिम्बदानेन तत्सामीपादनलक्षणस्तेन परिभावितमेतत्प्रत्यक्षादिगोचरं जगदनिर्वाच्यं सृष्टिकाले परिभावितं "तदैक्षत बहु स्याम्" ( छा० ६ । २ । ३) इतीक्षणमात्रेणोत्पादितम् , प्राशु ईक्षणसमसमयेऽनृतम् , सपदि व्यवहृतो स्थितिसमये व्यवहारदशायां प्रोद्भूतिमत् प्रकर्षणोत्पत्तिमदिव क्षमते-अर्थक्रियासमर्थ भवति तमिति सम्बन्धः ॥१॥ यं द्वैतशून्यमपि सर्वमयं वदन्ति
त्यो गिरो निरभिधं सकलाभिधञ्च । मायातिगं सकलशक्तियुतं तमन्तः
स्वानन्दमेव कलये सततं मुकुन्दम् ॥२॥
एवं तत्पदार्थ स्वरूपतटस्थल क्षणाभ्यामनुसन्धायेदानीमखण्डवाक्यार्थ ब्रह्मैक्यम् "अध्यारोपापवादाभ्यां निष्प्रपन्चं प्रपञ्च्यते" इति न्यायेन साक्षाद्वक्तुमशक्यतया सर्वव्यवहारानास्पदमपि मायाद्यधिष्ठानत्वेन सर्वव्यवहारास्पदं सर्वाविरुद्धस्वरूपं भगवन्तमनुसन्धत्तेयमिति । तं मुकुन्दं तत्पदलक्ष्यम्, स्वानन्दं त्वंपदलक्ष्यम्, सततं नैरन्तयेणान्तरेव स्वस्वरूपमेव प्रत्यगभिन्नमखण्डं ब्रह्मैव कलये इत्यन्वयः । तं कमित्याकाङ्क्षायामाह-यमिति । स्वयंज्योतिष्ट्वेन प्रसिद्ध यं द्वैतशून्यमपि सन्तं श्रौत्यो गिर: "सर्व खल्विदं ब्रह्म' ( छा० ३। १४।१ ) इत्याधाः "सर्वमयं सर्वाकारम्" "यतो वाचो निवर्तन्ते" (तै० २। ४) इति श्रुत्या निरभिधं शब्दातीतत्वेनावाच्यमपि सन्तं सकलाभिधं सर्वशब्दवाच्यं वदन्ति मायातीतमपि सन्तं यं सकलशक्तियुतम् , “एष वशी" ( कठ० ५। १२) “एष सर्वस्येशानः" (बृ०५।६।१)इत्याद्या वदन्ति तं कलय इति सम्बन्धः । तथा च परमार्थता नामरूपकलातीते सर्वव्यवहारानास्पदे ब्रह्मणि मायिकदृष्ट्या नाम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com