SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २४६ प्रत्यक्तत्त्वचिन्तामणी रूपकलाद्यारोप्य ब्रह्मैक्यतत्त्वबोधाय श्रुतयस्तदेवाद्वितीयं ब्रह्मतत्त्वं प्रतिपादयन्तीति भावः ॥ २ ॥ तत्त्वंपदार्थधिषणोत्थपरैक्यबोधः स्वाज्ञानबाधकरणं अतिजन्यभावात् । आदी तयाः श्रुतिभिरीडितलक्षणाभ्यां निर्णीयते द्वयसुखैकवपुस्तदर्थः ॥३॥ एवं शास्त्रार्थ सङ्कपेण प्रदर्श्य विस्तरेण इममेवार्थ वक्तुकाम: कर्तव्यं प्रतिजानीते-तत्त्वमिति। तत्त्वंपदार्थविषयिणी या धिषणा ज्ञानं तदुत्थस्तदधीनसिद्धिकः परैक्यस्य ब्रह्मात्मैक्यस्य बोधः श्रुतिप्रमाणजन्यत्वात् स्वात्माज्ञानस्य यो बाध उपमर्दस्तस्य करणं साक्षादे॒तुर्भवति । अत आदी तयोस्तत्त्वंपदार्थयोर्मध्येऽभ्यर्हितत्वात्तत्पदार्थः अद्वयानन्दस्वरूपी वेदान्तवाक्यैस्तदुक्तलक्षणाभ्यां निर्णीयते जगजन्मादिहेतुत्वेन सच्चिदानन्दस्वरूपत्वेन विविच्यत इत्यर्थः ॥ ३ ॥ तत्र स्वरूपमपि लक्षणमुच्यतेऽस्य । सत्यादिभिः श्रुतिपदैरभिगीतमेव । धादिभाव इह कल्पित इष्यतेऽतः स्वस्यापि लक्षणमिदं स्वयमात्मतत्त्वम् ॥४॥ तत्राभ्यर्हितत्वाच्छानतात्पर्य्यविषयत्वाच्च "सत्यं ज्ञानमनन्तं ब्रह्म" ( तै० २ । १ । १) इति श्रुतिसिद्धं स्वरूपलक्षणं दर्शयति-तत्रेति । तटस्थस्वरूपलक्षणयोर्मध्येऽस्य तत्पदार्थस्य स्वरूपलक्षणं सत्यादिभिः सत्यज्ञानानन्तरूपैः श्रुतिपदैः श्रुतेः “सत्यं ज्ञानमनन्तं ब्रह्म" ( तै० २।१।१) इत्यस्याः पदैरभिगीतमेवोच्यते इत्यन्वयः । ननु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy