________________
षष्ठं प्रकरणम्।
२४७ स्वस्य स्ववृत्तित्वाभावात्कथं स्वरूपमेव लक्षणं स्यात् ? इति तत्राहधादिभाव इति । इहोपदेशसमये स्वस्यैव स्वापेक्षया धर्मधर्मिभावकल्पनया लक्षणत्वसम्भवादत इदं नित्यापरोक्षरूपमात्मतत्त्वं स्वयमेव स्वस्य लक्षणं भवतीत्यर्थः। तत्र सत्यं बाध्यविलक्षणं ज्ञानं जडविलक्षणमनन्तं त्रिविधपरिच्छेदशून्यं स्वरूपलक्षणं स एव तत्पदलक्ष्यार्थ इति दर्शितम्। न च स्वरूपे धर्मधर्मिभावकल्पनाऽसाम्प्रदायिकीति शक्यम् । यत उक्तञ्चास्मत्साम्प्रदायिकैः पद्मपादाचार्यैः"आनन्दो विषयानुभवो नित्यत्वञ्चेति सन्ति धर्मा अपृथकत्वेऽपि चैतन्यात् पृथगिवाऽवभासन्ते” इति ॥ ४ ॥ व्यावर्तक यद्ध्यनवस्थितत्वे
सत्यस्ति यावनिजलक्ष्यकालम् । तल्लक्षणं नाम तटस्थमाहु
र्यथा पृथिव्याः खलु गन्धवत्त्वम् ॥ ५॥ एवं स्वरूपलक्षणमुक्ता तटस्थलक्षणमाह-व्यावर्त्तकमिति । यावन्निजलक्ष्यकालमनवस्थितत्वे सति यद्व्यावर्तकमस्ति, तल्लक्षणं तटस्थं नामेति सम्बन्धः। यथा गन्धवत्त्वं पृथिव्याः लक्षणमाहुः खलु नैयायिकादय इति योजना ॥ ५॥ यया न गन्धः प्रलयेऽणुषु स्या
दुत्पत्तिकाले न घटादिनिष्ठः। तथा जगज्जन्मलयस्थितीनां
हेतुत्वमद्वैतचिदात्मनोऽपि ॥ ६ ॥ एतदेवोक्तं दृष्टान्तेन द्रढयति-यथेति। महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु च गन्धाभावात् तथा प्रकृतेऽपि जगजन्मस्थिति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com