SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ द्वितीयं प्रकरणम् । अहमशेषकलाञ्चितमीश्वरं सततमात्मपदप्रदमाश्रये ॥२॥ सुखघनमिति पूर्वार्द्धन प्रयोजनोल्लेखः । अहमित्युत्तरार्द्धन भक्ताभीष्टदानदक्षत्वं भगवतो दर्शितमिति विभागः। अक्षरार्थस्तु निगदव्याख्यातः ॥ २॥ जगदिदं खमरुच्छुचिवारिभ विरचितं स्वचिता परिहितम् । यत उदेति मुकुन्दपदाभिधा तमहमादिगुरु हरिमाश्रये ॥३॥ जगदिदमिति। "यतो वा इमानि भूतानि जायन्ते” (तै० ३। १) इति श्रुतिसिद्धजगज्जन्माद्यभिन्ननिमित्तोपादानकारणत्वं भगवतो दर्शितम्। स्वचिता स्वात्मचैतन्येन जगदिदं भूतभौतिकरूपं जडं खसत्तास्फूर्तिप्रदानेन परिबृंहितम्-सर्वव्यवहारसमर्थत्वापादनयोग्य यथा स्यात्तथा सम्यगुद्भावितमित्यर्थः। शेष निगदव्याख्यातमेवेति सर्व मङ्गलम् ॥ ३ ॥ नित्यस्वाध्यायविधिना साङ्गं वेदमधीत्य यः। पुण्यपुञ्जोदयात्कश्चित्सुधीः शास्त्रार्थवित्तमः॥४॥ एवं मङ्गलाचरणव्याजेन शास्त्रार्थ संक्षेपेण प्रदर्येदानी "आत्मावा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" (बृ०२। ४। ५) इत्यत्रात्मदर्शनमनूद्य तदुपायत्वेन श्रोतव्य इत्यादिना मनननिदिध्यासनाभ्यां फलोपकार्यङ्गाभ्यां सह श्रवणं नामाङ्गि विधीयते इत्युपपादयितुं भूमिकामाचरयति-नित्यस्वाध्यायविधिनेत्यादिना । १२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy