________________
अथ द्वितीयं प्रकरणम् सकलकारणकार्यविलक्षणं
श्रुतिभिरीरितमद्वयमक्षयम् । हृदि गतं विमलं रमयाऽऽश्रितं
यदुपति कलये कलनेाज्झितम् ॥१॥ पूर्वप्रकरणान्ते श्रवणविधिबलेनाद्वैततत्त्वं विदित्वा मोक्षं बजतीत्युक्तम्, तत्र श्रवणे "अात्मा वा अरे द्रष्टव्यः श्रोतव्यः' (बृ. २ । ४ । ५) इत्यादिवाक्येन मननध्यानाभ्यामङ्गाभ्यां श्रवणं नामाङ्गि विधीयते, इति विधिं सिद्धवत्कृत्य तत्त्वसाक्षात्कारसाधनत्वं प्राधान्येन श्रवणस्यैवेति सूत्रितं तद्विवरणरूपं प्रकरणान्तरमारभमाणः स्वेष्टदेवतानुसन्धानरूपमङ्गलमाचरन्नर्थात्प्रकरणप्रतिपाद्यं श्रवणादिविधिविषयत्वेन ब्रह्मात्मैक्यं तत्त्वं सङ्क्षिप्य दर्शयति-सकलेत्यादिपद्यत्रयेण । तत्र प्रथमार्द्धन "तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्' (बृ. २ । ५ । १६) इत्यादिश्रुतिसिद्धमखण्डवाक्यार्थरूपं ब्रह्मात्मैक्यं दर्शितम् । हृदि गतं विमलमिति पदद्वयेनान्तःकरणोपहितं तत्साक्षितयाऽसंस्पृष्टमसङ्गचैतन्यं त्वंपदलक्ष्यं च दर्शितम्। रमयाऽऽश्रितं यदुपतिमिति पदद्वयेन तत्पदवाच्यम, कलनोझितमित्यनेन मायातकार्यरूपकलनाविनिर्मुक्ततया सर्वव्यवहारानास्पदं तत्पदलक्ष्यञ्च दर्शितमिति विवेकस्तेन शास्त्राभिधेयाभिधानम् ॥ १॥ सुखधनं निरवद्यमशेषगं
निरवधि परमेकमनकुशम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com