SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ चतुर्थ प्रकरणम् । प्रतीतेः प्रामाण्यात्स्वत इतरबाधादिविरहात् प्रमाणैः सिद्धस्य प्रथितमिह वस्तुत्वमुचितम् ॥ ३ ॥ १४१ प्रत्यक्षादिप्रमाणसिद्धविश्वस्याऽज्ञानकल्पितत्वमसहमान: पूर्वोक्तमर्थमाक्षिपति -- नन्विति । प्रत्यक्तत्व जीवात्मनि जन्ममृत्युप्रवाहलक्षणा संसृतिरियं प्रत्यक्ष दिप्रमाणसिद्धा, प्रतीता सर्वप्रत्ययमारूढा, सद्रूपा अबाधितार्थक्रियाकारित्वे सत्यैव भवति । एवं सति त्वं कथमखिलं प्रमाणप्रमेयादिविश्वमध्यस्तमारोपितमिति वदसि ? सकलमनुभवन् प्रतीतेर्भ्रमत्वं निःशङ्कतया कथं तस्याऽह्नवं करोषीत्यर्थः । न च शङ्कयम्, तस्याश्च स्वतः प्रामाण्यात, इतर बाधादिविरहात्कारणदोषबाधकप्रत्ययानुपलम्भात् । प्रमाणप्रतीतत्य चेह व्यवहारभूमैौ वस्तुत्वं परमार्थसत्यत्वम्, प्रथितं लोकप्रसिद्धम्, उचितञ्च । अन्यथा भ्रमप्रमाविशेषापत्तिः । तथा चात्मनि संसारः परमार्थ एवमुक्त इत्यर्थः ॥ ३ ॥ न चेद्वस्तुत्वं स्याज्जगति च तदा शास्त्रमखिलं भजेत्प्रामाण्यं तत्कथममृतभेागादि करणम् । मृषाहेर्विध्वस्त्यै क्वचिदपि न मन्त्रादिकरणं विधत्ते किन्त्वेतामधिकरगाबुद्धिं दृढमतिः ॥ ४ ॥ --- अत्रैव युक्तयन्तरमाह- - न चेदिति । यदि संसारः परमार्थो न चेत्, तदा कथमिष्टाऽनिष्टप्राप्तिपरिहारोद्देशेन साधनविधायिशास्त्रं प्रमाणं भवेत् ! नहि रज्जुसर्पनिवृत्तये मन्त्रौषधादिसाधनमुपदिश्यते, किन्तु रज्जुस्वरूपज्ञानमेव दृढमतिरभ्रान्तः पुरुषो विधत्ते - उपदिशतीत्यर्थः ॥ ४ ॥ ततश्चारब्धव्यं भ्रमतिमिर विध्वंसनकरं सुकाण्डं ज्ञानस्याऽनुपकृतमिदं कर्म्म न कदा | Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy