SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १६४ प्रत्यक्तत्त्वचिन्तामा अज्ञाने घटितघटनाचतुरे किमसम्भावितम् ? सर्व सम्भाव्यते इत्यर्थः ॥ ३२॥ जगज्जायत्काले विविधमनुभयान्ध्यजनितं सुषुप्तिं गत्वा स्यात्पुनरपि समुत्थाय सहसा। जगबुद्धिर्या सा जगदभिनवं गोचरयति स्फुटं सादृश्यात् स्यात्तदिमिति बुद्धिर्व्यवहृती॥३॥ प्रतीतिसमानयोगक्षेमस्य प्रपञ्चस्य ज्ञातमेव सत्त्वं नाज्ञातसत्त्वमिति द्रढयितुमवस्थासु प्रपञ्चभेदं साधयति-जगदिति। जाग्रत्काले इन्द्रियैरर्थोपलब्धिलक्षणे विविधमान्ध्येनाज्ञानेन कल्पितं भूतभौतिकं जगद्विचित्रमनुभूय, सुषुप्तिं गत्वा, पुनरपि जागरे समुत्थाय, सहसा या जग बुद्धिर्जगद्गोचरा प्रतीतिः स्यात्; सा प्रतीतिरभिनवं स्वसमानशरीरं जगत्स्पष्टतया गोचरयति । तत्र तदिदं गृहमित्यादिबुद्धिर्व्यवहारे साहश्यादेव स्यादिति योजना ॥ ३३ ॥ नहि द्रष्टुष्टेरपि विपरिलोपो न तु ततो द्वितीयं वाऽन्यत्स्याद्यदयमपि पश्येदिति वचः। जगद्वैतं सुनावपवदति सत्यामपि दूशि प्रपञ्चाभावोऽतः श्रुतिवचनसिद्धोऽस्ति सततम् ३४ ननु प्रत्यभिज्ञाया भ्रमत्वसाधिका युक्तिर्मलप्रमाणाभावेनाभासत्वानावस्थासु प्रपञ्चभेदं साधयितुं क्षमते इत्याशक्य युक्तेः श्रुतिप्रमाणमूलत्वान्नाभासत्वमित्याह-नहीति। “नहि द्रष्टुह ष्टेर्विपरिलोपो विद्यतेऽअविनाशित्वान्नतु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्” (बृ० ४ । ३ । २३) इति श्रुतेर्वचो दृशि द्रष्टुः वरूपभूतदृष्टी सत्यामेव सुषुप्तौ जगद्वैतमपवदति निषेधति । अतः श्रुतिवचनप्रमाण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy