SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ३४ प्रत्यक् तत्त्वचिन्तामणौ मोक्षः स्यात्तत्फलमपि कथं कीदृशाः स्युर्विमुक्ता इत्यं पृष्टो गुरुरपि वदेदुत्तरं तत्क्रमेण ॥ २७ ॥ अथ मुमुक्षुणा कर्त्तव्यान् प्रश्नान्निरूपयति — कोऽहमिति । किं देहादिसङ्घातरूप: ? किं वा देहमात्रम् ? अथवा ग्रहं कर्त्ता भोक्तेत्यादिप्रत्ययविषयो लिङ्गदेह : ? उताहो तद्विलक्षणः ? इत्याद्यहं - प्रत्ययविषयक एकः प्रश्नः । प्रचुरभयदा प्रत्यन्तदुःसहा संसृतिजन्ममरणप्रवाहरूपा कस्य किं देहादिसङ्घातस्य ? उताहो तद्विलचणस्य कस्यचित् ? इत्याद्यहं प्रत्ययास्पदगतबन्धविषयको द्वितीयः । अविद्या कास्ति ? किं तार्किकादिलोकप्रसिद्धज्ञानाभावरूपा ? अथवा तद्विलक्षणा ? इति बन्धकारण विषयकस्तृतीयः । तस्या श्रविद्यायाः क्षये निवर्त्तने बाधने पटुतरा अत्यन्तप्रगल्भा विद्या का ? किं कर्मोपासनादिरूपा ? किं वा तद्भिन्ना ? इति तन्निवर्तकविषयकचतुर्थः । तस्य विद्याया प्राप्त कोऽस्त्युपायः ? किं ध्यानादिरूपो योग: ? किंवा वेदान्तवाक्यविचाररूपः श्रवणादिः ? इत्यादितत्त्वज्ञानप्राप्त्युपायप्रश्नः पञ्चमः । तत्फलं तस्या विद्याया फलम् । पिभिन्नक्रमः । मोक्षोऽपीत्यत्र सम्बध्यते । स किं स्वरूपः ? किं स्वर्गादिवत्कश्चिद्देश विशेष: ? किं वा तद्विलक्षणः ? इत्यादितत्फलविषयकः षष्ठः । ये विमुक्ता मोतफलं प्राप्तास्ते कीदृशाः स्युः ? किमस्मदादिना साधारण व्यवहारवन्तः ? किं वा विलक्षणव्यवहारा: ? इत्यादिजीवन्मुक्ततत्त्वविद्विषयकः प्रश्नः सप्तमः । इत्थमेतत्प्रकारकानन्यानपि प्रश्नान् पृष्टः शिष्येण स्वाभिमुखीकृतो गुरुः । गृणाति उपदिशति तत्त्वं शिष्येभ्य इति गुरुः । अपि शब्दाख्यात्यादिस्वप्रयोजनशून्योऽपि केवलं स्वभाव भूतकरुणया प्रेरित एव शिष्येभ्यस्तत्त्वमुपदिशतीति सूचितम् । तत्क्रमेण तेषां शिष्यकृतप्रश्नानां क्रमेणेोत्तरं ततत्प्रश्न समाधानं वदेत्, तत्संशय निराश पर्यन्तमुपदिशेदित्यर्थः ||२७|| Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy