SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ प्रथमं प्रकरणम् । तत्राप्यादा गुरुवदनतः शास्वसिद्धस्त्वमों वक्तव्यः स्यात्तदनुविविधप्रश्नवाक्यानुसारात्। शास्त्रे द्वेधा भवति रचना वस्तुबोधाय तस्मा दवाप्येवं भवति गुरुणा बोध्यते शिष्य प्रादा॥२८॥ ननु शास्त्रे वादिप्रतिवादिरूपेण तत्त्वं प्रतिपाद्यते, तथा प्रतिपादनं च नानाशङ्कानिरासेन शास्त्रसिद्धान्तस्थापनार्थम्, तत्कथं तत्परित्यज्य गुरुशिष्यरूपेण तत्त्वनिरूपणमारभ्यते ? इत्याशङ्क्याह--तत्रापीति । तत्र शास्त्रेऽपि द्वधा रचना भवतीत्यन्वयः। शिष्यतेऽनेन शिष्येभ्यस्तत्त्वं यथावत्प्रतिपाद्यते तच्छास्त्रं वेदान्तरूपं तन्निर्णायक विचारप्रधानाभियुक्तकृतनिबन्धरूपञ्च तस्मिन् वस्तुबाधाय अनारोपिततत्त्वज्ञापनाय न तु विजिगीषामात्रफलाय द्वेधा द्विप्रकारा रचना निर्माणं भवति । वादिप्रतिवादिरूपा गुरुशिष्यसंवादरूपा च । एवं सति आदावभ्यहितत्वाद् गुरुशिष्यसंवादरूपा प्रदर्श्यते, वेदान्तेषु छान्दोग्यबृहदारण्यककेनप्रश्नोपनिषदादा सर्वत्र प्रायस्तस्या एवोपलम्भात् । वेदस्यानादित्वेऽपि सर्वार्थावभासकतया गुरुशिष्यादिभावं प्रकल्प्य तथावर्णनम् । वेदशब्दानुराधेनैव सृष्टिरचना । यथावेदबोधितमेव वैदेहयाज्ञवल्क्यादीनां समागमादि जायते । यथोक्तमेव तेषां वेदार्थभानमपि तत्तकाले भवतीति द्रष्टव्यम् । तस्माच्छास्त्रानुरोधादत्रापि वेदान्तप्रकरणे गुरुवदनतः गुरुमुखेन शास्त्रसिद्धो वेदान्तनिर्णीतस्त्वंपदार्थो वक्तव्यः स्यात् । तत्पदार्थस्य शास्त्रतात्पर्यविषयतयाऽभ्यर्हितत्वेऽपि त्वंपदार्थस्य मोक्षफलभागितया ततोऽभ्यहितत्वात्तस्यादा वक्तव्यत्वमिति द्रष्टव्यम् । तदनु गुरुशिष्यसंवादनिरूपणात् पश्चाद् विविधप्रश्ननिर्णायकवाक्यानुसाराद्वादिप्रतिवादिरूपेणेति यावत् । अतः शास्त्रसिद्धत्वादेव गुरुणाचार्येण शिष्य: शासनाह आदी प्रथमतो बाध्यते बोधाभिमुखीक्रियत इत्यर्थः । “तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत् समि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy