________________
प्रत्यक्तत्त्वचिन्तामणौ त्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् । तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय।" (मु०१।२।१२, १३) इत्यादिश्रुतेः ॥२८॥ श्रौतं तत्त्वं शृणु शुभमते ! त्वं पदार्थ विशुद्धं
प्रत्यञ्चं स्वं त्रिगुणविधुरं वस्तुतस्तुर्यमच्छम् । सत्यं ज्ञानं सुखधनमजं साक्षिणं जाग्रदादे
स्तस्मिन्शुद्ध विगुणमनृतं कल्पितं भावमानध्वम् २८
शिष्यं तत्त्वश्रवणायाभिमुखीकुर्वस्तस्मै तत्त्वं संक्षेपेण गुरुरुपदि. शति-श्रोतमिति । हे शुभमते ! शुभा संसारभोगेभ्यो विरज्य परमात्मपदाभिमुखत्वात्सुकृतपुखफला मतिर्निश्चयात्मिका चेतोवृत्तियस्य स त्वं श्रौतं तत्त्वं श्रुतिप्रमाणकं वस्तुतत्त्वं शृणु-श्रोतुं सावधानो भवेत्यन्वयः। कोऽहमिति त्वया पृष्टे त्वंपदार्थ श्रुतिप्रतिपादित वस्तुत
आजानता विशुद्धं मायातत्कार्यमलात्यन्तासंस्पृष्टम, प्रत्यञ्च सर्वान्तरत्वादस्मत्प्रत्ययगोचरम्, स्वं स्वात्मानम्, त्रिगुणमज्ञानं तत्कार्यञ्च तेन विधुरं वस्तुतस्तच्छून्यम्, तुर्य्य विश्वतैजसप्राज्ञेषु जायदाद्यभिमानिषु जीवत्वेनाभिमतेषु जाग्रदाद्यवस्थासु चानुगतत्वात् “शिवमद्वैतं चतुर्थ मन्यन्ते" (माण्डू० ७) इत्यादिश्रुतिसिद्धं तुरीयम्, अच्छमपाहतपाप्मादिगुणकम, सत्यं कालत्रयेप्यबाध्यम्, ज्ञानं स्वप्रकाशचिद्रूपम्, सुखघनमानन्दैकरसम, अजं जन्मोपलक्षितषड्भावविकारवर्जितम्, जाग्रदादेरवस्थात्रयस्य साक्षिणं साक्षाद्रष्टारम, त्वंपदार्थ शृण्विति सम्बन्धः। नन्वेवस्वरूपोऽहं चेत्तर्हि कथं मम संसारः ? इत्याशङ्क्यैतादृशस्वरूपापरिज्ञानादेवेत्याह तस्मिन्निति। वस्तुतः शुद्धे संसारासंस्पृष्टे आन्ध्यमन्धयति स्वरूपमावृणोतीत्यन्धं तस्य भावस्तदेव वा प्रान्ध्यमज्ञानमविद्यामायादिशब्दवाच्यं तस्य भावरूपप्रपञ्चं प्रति कारणत्वयोग्यतामाह-भावमिति। तेन ज्ञानप्रागभावादी नातिव्याप्तिः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com