SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रकरणम्। १८३ प्रयोजनमित्याह-विध्वस्तविभ्रममिति। विध्वस्तो मूलबाधेन बाधितो विभ्रमः कर्तृत्वभोक्तृत्वादिरूपोऽनर्थो यस्मिन्ननर्थनिवृत्त्युपलक्षितं सच्चिदद्वयानन्दात्मकं ब्रह्मेति फलितम् । लौकिकसुखं तत्साधनञ्च लगादिरूपं ततो विलक्षणं स्यात्, तेन तस्य परिच्छेदापत्तिश्च स्यादित्या. शक्याह-अशेषजडावभासमिति। अशेषजडं समस्तब्रह्माण्डान्तवर्ति सुखसाधनत्वेनाभिमतं सकचन्दनरम्भागान्धर्वामृतपानादिरूपं तजन्यसुखाकारान्तःकरणपरिणामरूपञ्च तस्यावभासः स्फूर्तिस्तद्रपम् । तथा च सच्चिदद्वयानन्तात्मकब्रह्मसुखमन्तरेण संसारे स्वातन्त्र्येण सुखगन्धोऽपि नास्तीत्यपरिच्छिन्नसुखं ब्रह्मैव तत्र तत्र तदभिव्यजकतारतम्येन प्रतीयमानतारतम्यं लौकिकसुखत्वेन व्यपदिश्यते, न ततो विलक्षणं सुखं नामास्ति । "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेः'' (बृ० ४ । ३ । ३२) इति भावः ॥१॥ स्वाज्ञानकल्पितमखएडसुखावबोधे देहेन्द्रियादिजडजातमनात्मभूतम् । तत्रात्मतामतिरियं भवमृत्युहेतु रध्यास आत्मनि तथा जडधर्मबुद्धिः ॥२॥ एवमनर्थनिवृत्त्युपलक्षितं सच्चिदद्वयात्मकं सुखं ब्रह्मैव ज्ञातं सत्प्रयोजनम् , अज्ञातं स द्विषय इत्युक्तम्। तत्राऽज्ञानमेवाऽऽत्मानात्मनोरन्योन्याध्यासद्वारा सकलानर्थहेतु रिति तन्निवृत्तये सर्ववेदान्तगिरी प्रवृत्तिः, ततश्चादा तत्त्वज्ञाननिवर्हणीयाध्यासस्वरूपं दर्शयति-स्वाज्ञानेति । अखण्डं त्रिविधपरिच्छेदशून्यं यत्सुखमवबोधरूपं ज्ञानघनं तत्र स्वात्माज्ञानेनारोपितं देहेन्द्रियादिजडजातं घटादिवदनात्मभूतम्। तत्र देहादावनात्मनि प्रात्मत्वमतिरियं सर्वलोकप्रसिद्धा। भवमृत्यू जन्ममरणे तद्धतुरध्यासोऽतस्मिंस्तद्बुद्धि रूपः। तथात्मनि जडा देहादयस्तद्धर्माश्च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy