SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १८४ . प्रत्यक्तत्त्वचिन्तामणौ जाड्यादयस्त द्धिरध्यासः । तथाचात्मानात्मनोस्तद्धर्माणामितरेतराव. भासलक्षणोऽध्यासः सर्वानर्थहेतुरित्यर्थः ॥ २ ॥ सेयं परस्परमतिर्बहुधात्मविद्भिः मोक्ता नयैर्निरसनाय भवाब्धिहेतुः। नैनामृते व्यवहृतिः परमात्मतत्त्वे काचित्मसिद्धयति मनो वचनाद्यतीते ॥३॥ ननु किमर्थमप्रामाणिकोऽयमध्यास: कल्प्यते, तं विनैव सर्वव्यव. हारसिद्धिः किन्न स्यात् ? इत्याशक्य तस्याप्रमाणिकत्वनिरासेन सर्वव्यवहारानास्पदे सर्वव्यवहारसाधकत्वं प्रदर्शयस्तं विना व्यवहारानुपपत्तिरित्याह-सेयमिति । सेयं परस्परमतिरन्योन्याध्यास प्रात्मविद्धिर्भगवत्पादप्रभृतिभिस्तत्त्वज्ञैरत्यन्तप्रामाणिकैर्बहुधा लक्षणसम्भावनाप्रमाणप्रदर्शनप्रकारैः प्रोक्ता प्रकर्षेण सर्ववादिमते यथायथमाव. श्यकस्वीकार्यत्वेन रूपेणोक्ता दर्शिता। तैरपि किमर्थ निरर्थकाध्यासवर्णनं कृतमित्यत आह-नयैर्निरसनायेति । व्यासोक्तन्यायानुसारिपोभिर्युक्तिभिर्निरासाय तस्य वर्णनं कृतमित्यर्थः । ननु किमर्थ तन्निरासोऽपीत्यत आह-भवाब्धिहेतुरिति । संसारसिन्धौ पातहेतुत्वात्सकलान बोजभूतः स्वयं साक्षादनर्थश्चायमध्यासः सर्वथा निरसनीय एवेत्यर्थः। एनां सर्वलोकप्रसिद्धी परस्पराध्यासात्मिका मतिम्-अहम,इदम् , ममेदम्-इति लक्षणामृते विना मनोवचनाद्यतीते परमात्मतत्त्वे सर्वव्यवहारानास्पदे प्रत्यगभिन्ने ब्रह्मणि काचिदपि व्यवहृतिः कश्चनापि लौकिको वैदिको वा व्यवहारो नैव प्रसिद्ध्यतिकथञ्चिदपि नैव सिद्धयति, प्रथते वेत्यर्थः। तथा च सर्वसंसारदोषपुखाकरोऽयमध्यासः, तस्य निरासे सर्वथा मुमुक्षुभिर्यतितव्यमिति भावः ॥ ३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy