________________
अथ पञ्चमं प्रकरणम्
अद्वैतसच्चितिसुखं श्रुतिमौलिगम्यं विध्वस्तविभ्रममशेषजडावभासम् ।
यत्पादभक्तिरसिकैरवबुद्धयतेऽञ्ज
स्तं श्रीमुकुन्दमतिभावनयाऽऽश्रयेऽहम् ॥१॥
मात्रादिविश्वमखिलं जडदुःखमिथ्या
रूपं भ्रमोत्थमपि चेष्टत प्रविरिञ्च्यम् । यत्सत्तया तममृतं निगमैकवेद्यं श्रीमन्मुकुन्दमनिशं शरणं प्रपद्ये ॥ १ ॥
”
चतुर्थप्रकरणान्ते "अनृतजडविषादाकारमेतत्समस्तं जगदपि लयमेति प्रत्यगात्मैक्यदृष्ट्या '' इत्युक्तं तत्राऽनर्थात्मकं जगत् त्रिविधप्रमात्रादिरूपेण स्वस्वरूपप्रत्यगात्मदृष्टिप्रतिबन्धकं प्रत्यगात्मविवेकेन तद्दृष्टया तदपगमे संसारानर्थोपशम इत्येतदर्थविचारप्रधानं प्रकरणमारभमाणः स्वेष्टदेवतानुसन्धानात्मकं मङ्गलमाचरन्नर्थादभिधेयप्रयोजने दर्शयतिअद्वैतेति । तं श्रीमुकुन्दमहमतिभावनया भक्त्युद्रेकेण भगवदाकारवृत्त्या आश्रये —तदतिरिक्तभावनामनादृत्य तमेव फलभूतमनुसन्दधे इत्यन्वयः । तं कमित्याकाङ्क्षायामाह — यत्पादेति । I यस्य भगवतो मुकुन्दस्य पादाम्भोजानुरागाक्रान्तचित्तः पुरुषधौरेयैरजोऽनायासेनाऽद्वैतं विषयविषयिभावरूप द्वैतशून्यं सदबाध्यं चितिरितरनिरपेक्ष प्रकाशस्वभावतया ज्ञप्त (प्ति ? ) रूपं यत्सुखं ब्रह्मानन्दशब्दवाच्यं तदवबुध्यते साक्षात्क्रियते—इति मुख्य प्रयोजनोक्तिः । तत्केन प्रमाणेनावबुध्यत इत्यत प्राहश्रुतिमौलिगम्यमिति । वेदान्तप्रमायैकवेद्यमित्यर्थः । दुःखाभावाऽपि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com