SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्तत्त्वचिन्तामणौ ___ ननु कथमनृतस्य निरात्मकस्याहङ्कारादेरध्यासो यावता कचिदृष्टपूर्वस्य सत एव वस्तुनः क्वचिदारोपो दृष्टः। उक्तञ्च भट्टपादैः "अध्यस्यते खपुष्पत्वमसत्कथमवस्तुनि । प्रज्ञातगुणसत्ताकमध्यारोप्येत वा न वा ॥" इति । तत्राह-मिथ्याध्यासादिति । अयमर्थ:--संस्कारजन्यो हि भ्रमस्तत्सिद्धये पूर्वप्रतीतिमात्रमपेक्ष्यते, न पुनः पूर्वप्रतीतस्य परमार्थसत्त्वमपि व्यतिरेकाभावात् संशयविपर्ययदृष्टेष्वपि संस्कारकार्यस्मृतिदर्शनात् । तथा हि-लोकेऽनुभवोऽस्मिन् बल्मोककूट मम पुरा "स्थाणुः पुरुषो वा' इति सन्देह आसीत्, अस्मिन् शुक्तिशकले "रजतमि. दम्" इति भ्रम आसीदित्यादिः । न च संशयविपर्यययोरेवेयं स्मृतिर्न तदर्थयोरिति वाच्यम्, अर्थशून्ययोस्तयोः स्मृतिविषयत्वानुपपत्तेः । तस्मान्निरुपाख्यविलक्षणस्य पूर्वपूर्वभ्रमदृष्टस्याप्युत्तरोत्तरारोपोपत्तेभ्रंमप्रवाहस्य चानादित्वेनान्योन्याश्रयानवस्थादिप्रसङ्गानवकाशात् । युक्तमज्ञानोपहिते परमार्थसत्यात्मनि मिथ्याभूतस्यानिर्वाच्यस्याहङ्कारादेरध्यास इति । अनिर्वचनीयाज्ञानकार्यत्वादनिर्वचनीयोऽध्यासोऽतस्मिंस्तबुद्धिरूपः। तस्मादहमिति प्रत्ययः सूक्ष्मे लिङ्गशरीरे सप्तदशावयवात्मके, स्थूलदेहे च भवतीत्यर्थः । नन्वज्ञानद्वाराऽऽत्मनि कल्पितोऽहमिति प्रत्ययः शब्दश्च, तत्राहमस्मीति भान युज्यते, पुरोवर्तिनि शुक्तिशकलादाविदं रजतमित्यादिप्रत्ययवद् । देहादी तु कथमहमस्मीति विपर्ययभानम् ? नहि देहादावारोपिते हङ्काराध्यासो न वा कल्पितेऽहङ्कारे देहादेरध्यासः, कल्पितस्याज्ञातत्वाभावेनाधिष्ठानत्वायोगादित्याशङ्कय नह्यहमस्मीतिप्रत्ययस्तयोरधिष्ठानाधिष्ठेयभावप्रयुक्तः, किन्त्वेकस्मिन्नात्मन्यहङ्कारस्य देहद्वयस्य चाध्यासाहेहादावहमस्मीति प्रत्ययः, यथा 'अहमज्ञः' इति प्रत्यये चिन्मात्रनिष्ठस्याप्यज्ञानस्याहङ्कारनिष्ठतया भानम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034588
Book TitlePratyek Tattva Chintamani
Original Sutra AuthorN/A
AuthorSadanand Vidvat
PublisherAchyut Granthmala
Publication Year1932
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy